________________
फ
पुष्पमाला लघुवृत्तिः ॥१२॥
ॐ*
४ भावनाऽधिकारे परिग्रहविरमणव्रतपालनोपदेशः
*
| साधवे दीयमानं लक्षमूल्यं रनकम्बलं त्वमप्यानय । ततः स कामतृष्णया वर्षास्वपि तथाऽकरोत् । दत्तश्च रनकम्बलस्तस्याः करे, क्षिप्तश्च | तया तदैव थाले। ततः माधुराह-सत्यं मुग्धाऽसि, यदेवं कष्टेनानीतोऽप्येतादृग्रनकम्बलो झलक्लिन्ने क्षाले क्षिप्यते । साऽप्याह-ज्ञातं ते वैदग्ध्यं, यदनन्तभवभ्रमणदुर्लभं चारित्रचिन्तामणिरत्नं सर्वथा शुचिस्त्रीशरीरेषु क्षिपसीत्यादि । तद्वचनाजातविवेकविकाशः साधुभणति-साधुभणितं,मिथ्या मे दुष्कृतं स्यात् सर्व । साऽपि साधु क्षामयति । साधुरपि गुरुसकाशं गत्वातं नत्वा स्वापराधं क्षामयति,श्रीस्थू| लभद्रं प्रशंसति,प्रायश्चित्तं गृह्णाति । स्थूलभद्रस्वाम्यप्युपभद्रबाहुस्वामिपादमर्थतो दशपूर्वाणि,सूत्रतस्तु सर्वाणि पूर्वाण्यधीत्य प्राप्ताचार्यपदः स्वर्गङ्गतः । तदेवं पररपि साधुभिर्दृढशीलैर्भाव्यमिति श्रीस्थूलभद्रकथानकं समाप्तम् । अथ परिग्रहव्रतपालनोपदेशमाहजइ वहसि कहवि अत्थं,निग्गंथं पवयणं पवण्णो वि।निग्गंथत्ते तो सा-सणस्स मइलत्तणं कुणसि ॥१५९॥
व्याख्या-निर्ग्रन्थं प्रवचनं यतिधर्मलक्षणं प्रपन्नोऽपि यद्यर्थ वहसि ततो निर्ग्रन्थत्वे विषयभूते शासनस्य मालिन्यमेव करोषि। निर्ग्रन्थत्वं मुनीनां वाङ्मात्रमिति लोका भणिष्यन्तीत्यर्थ इति गाथार्थः ॥ १५९ ॥ [ननु] भवत्वेवं, को दोषः ? इत्याह| तम्मइलणा उ सत्थे, भणिया मूलं पुणब्भवलयाणं। निग्गंथो तो अत्यं,सव्वाणत्थं विवज्जेज्जा ॥ १६०॥
व्याख्या-तन्मलिनता पुनः क्रियमाणा पुनर्भवलतानां-पुनः पुनस्संसारोत्पत्तिवल्लीनां मूलं-कारणं भणितं शास्त्रे, तद्यथा"पावर तित्थयरतं, जीवो जिणसासणं पभावंतो। तं चेव य मइलंतो, ममइ भवे भीसणदुहम्मि ॥१॥" ततो निर्ग्रन्थः सर्वे अनर्था वधबन्धादयो यस्मात्तं सर्वानर्थ वर्जयेदर्थमिति गाथार्थः ॥ १६ ॥
ESHWETAILS
1 ॥ १२३॥