________________
पुष्पमाला लघुवृत्तिः
॥१२१॥
स्वगृहेऽनैषीत् । अभया स्वदुश्चरितभयेनात्मानमुद्धध्य मृत्वा पाटलिपुत्रे व्यन्तरी जाता, पण्डिता तु पलाय्य पाटलिपुत्रेऽनुसमयं सुदर्शनरूपादीन् वर्णयन्ती देवदत्तागणिकागृहे तिष्ठति । अत्रान्तरे गृहीतदीक्षं तत्रायातं भिक्षायै समेतं तं [सुदर्शनं ] देवदत्ताया उपालक्षयत् सा द्वारं पिधाय विविधवेश्याभावः सन्ध्यां यावदक्षुब्धं तं दृष्ट्वा पश्चात्तापेन प्रेतवनेऽमोचयत् । तत्र च कायोत्सर्गस्थं तं दृष्ट्वा पूर्ववैरं स्मृत्वाऽभयाच्यन्तरी सप्तदिनीमनुकूलप्रतिकूलोपसर्गेस्तं व्यडम्बयत् । तदन्ते च शुक्लध्यानात्तस्य केवलज्ञानमुत्पन्नं । शक्रादिभिर्महिमा कृता । देशनां श्रुत्वाऽभयान्यन्तरी पण्डिता देवदत्ताऽपरेऽपि च बहवः श्राद्धधर्म केचित्साधुधर्म च जगृहुः । एवं भवाव्यानुद्धरंखिरं विहृत्य श्रीसुदर्शन र्षिर्मुक्तिमवापेति शीले श्री सुदर्शनदृष्टान्तः समाप्तः ।
अत्रैवोदाहरणान्तरमाह—
वंदामि चरणजुयलं, मुणिणो सिरिथूलभद्दसामिस्स । जो कसिणभुयंगीए, पडिओ वि मुहे न निड्डुसिओ ॥ १५८
व्याख्या - श्रीस्थूलभद्रस्वामिनो मुनेश्वरणयुगलं वन्दे, यो भगवान् मदनोद्दीपनविषमविषेण संयमप्राणापहारकत्वात्कृष्णभुजङ्गी कोशागणिका, तस्या मुखे - गोचरे पतितोऽपि न निर्दष्टो न तद्विषयविषेण व्याप्त इति गाथार्थः ।। १५८ ॥
श्रीस्थूलभद्रकथानकं ह्यावश्यकादिषु प्रसिद्धमेव, स्थानाशून्यार्थं तु किञ्चिदुच्यते - पाटलिपुत्रे नन्दराज्ञो मन्त्री शगडालः, स्थूलभद्र - सिरियाख्यौ तस्य पुत्रौ, सिरियाविवाहावसरे पूर्व विरोधितेन वररुचिपण्डितेनोद्भावितं कपटं, ततो जातकोपे नन्दे विषप्रयोगादिना शगडाले मृते द्वादशकोटीकनकव्ययेन द्वादशवर्षाणि कोषागृहे वेश्यावासे वसन्तं विषयदुर्ललितं स्थूलभद्र मानाय्य
#
४ भावनाडधिकारे
ब्रह्मवत दृढतायामेव स्थूल
भद्रकथानकम्
॥ १२१ ॥