________________
पुष्पमाला लघुवृत्तिः ॥११७॥
पित्रा तस्मै नादावि सा । इतश्च राजपाटिकां गच्छतो राज्ञः कर्णात्कुण्डलमपतत्, बहुधा विलोक्यमानमपि न लेभे । अन्यदा रेणुच्छन्नं राजमार्गे नागदत्तस्तद् दृष्ट्वा चकितोऽन्यमार्गेण गच्छन् वसुदत्तेन दृष्टः, ततः किमेतदिति तत्र विलोकयता कुण्डलं लब्ध्वा नहि नागदत्ते जीवति नागवतुर्मी परिणेष्यतीति तस्यानर्थे हेतुं विचार्य पर्वणि पौषधप्रतिमास्थितस्य नागदत्तस्य गले तद्बध्वा राज्ञे विज्ञसं, यथा- देव! तत्कुण्डलं नागदत्तगले मया दृष्टं राज्ञा तं तथाऽवस्थमानाय्यानेकधा कुण्डलस्वरूपं पृष्टः, प्रतिमाऽन्तेऽपि माभूद्वदत्तस्यापकारिणोऽप्यनर्थ इति मौनेनास्थान्नागदत्तः । ततो रुष्टेन राज्ञा वध्यतयाऽऽदिष्टस्य विडम्ब्यमानस्य वध्यभूमौ प्रेषितस्य तदुःखदुःखिताया नागवसुकन्यायाः सच्वेन तस्य च सत्येन धर्मप्रभावेण च शूलिका सिंहासनं प्रहाराश्चाभरणान्यभूवन् । जिनशासने प्रभावनाऽभूत् । राज्ञा नागदत्तः पूजितो वसुदत्तो निर्वासितः । नागदत्तोऽपि तथाऽनुरक्तां नाग (वसुं) श्रियं (?) परिणीय चिरं विषयानुपभुज्य प्रव्रज्य प्रियया सह स्वर्ग गतः, तौ क्रमान्मुक्तिं यास्यतः इति तृतीयत्रते नागदत्तकथानकं समाप्तम् ॥
अथ चतुर्थव्रतपालनोपदेशमाह -
नवत्तहिं विसुद्धं, धरिज बंभं विसुद्धपरिणामो । सव्ववयाण वि परमं सुदुद्धरं सिद्धाणं ॥१५३॥
व्याख्या—ख्यादिवर्जिता वसतिः, तत्र देव्यो नार्यश्च स्त्रियः सचित्ताः, चित्रवास्तुरूपास्त्वचित्ताः पशवो - गोमहिष्यादयः, पण्डका:- श्रीनरसेविनः, एतद्विकारदर्शनाद्ब्रह्मबाधा १ । स्त्रीणां कथा - एकाकिना धर्मदेशनादिरूपा “कर्णाटी सुरतोपचारचतुरा लाटी विदग्धप्रिया" इत्यादिका वा न कर्त्तव्या २ । स्त्रीभिः सहैकासने नोपविशेत्, उत्थितास्वपि मुहूर्त्त ( यावन्न ) तिष्ठेत्, यदाह
४ भावना
ऽधिकारे
नवगुप्तिवि
शुद्धब्रह्मव्रतपाल
नोपदेशः
॥११७॥