________________
पुष्पमाला लघुवृतिः ॥११४॥
४भावनाऽधिकारे असत्यदोपाविर्भावक
वसुराजकथानकम्
वसुनरवइणो अयसं, सोऊण असच्चबाइणो कित्ति । सच्चेण नारयस्त वि, को नाम रमिज ? अलियम्मि॥१५०॥
व्याख्या-वसुनरपतेरसत्यवादिनः [अयश-अ]कीर्तिमतिशयेन श्रुत्वा, अपिशब्दस्य व्यवहितस्य सम्बन्धात् , तथा नारदस्य सत्येन कीर्तिमपि श्रुत्वा को नाम रमेतालीके ?, न कोऽपीत्यर्थः । भावार्थः कथानकेनोच्यते -
चेदिविषये शुक्तिमतीपुर्यामभिचन्द्रे राज्ञि क्षीरकदम्बोपाध्यायान्तिके पुत्रपर्वतक-राजपुत्रवसुनारदा वेदान पठन्ति । अन्यदाऽऽकाशे गच्छतो मुनेर्मुखावयोनरकगमनमेकस्य स्वर्गगमनं श्रुत्वोपाध्यायो विषण्णः परीक्षार्थ लाक्षारसभृतं कुकुटं पृथक् पृथक् प्रच्छन्नं दत्वोक्तास्ते 'बत्र न कश्चिज्ञानातीक्षते वा तत्रायं हन्तव्य' इति । ततो वसुपर्वतौ क्वचिच्छून्यगृहे तो हत्वाऽऽयातौ, नारदस्त्वहतकुक्कुटश्चिरं भ्रान्त्वा समागतो गुरुं नत्वोवाच-नास्त्येव स प्रदेशो यत्र न कश्चिजानाति पश्यति वा, यतो यावत्सन्ति सर्वज्ञा अपि । ततस्तदितरयोनरक निश्चित्य वैराग्याद्गुरुः प्राबाजीद् । पर्वतस्तस्थाने शिष्यानध्यापयति, नारदः स्वस्थानं गतः, पितरि प्रबजिते वसू राज्यं शास्ति । इतश्च मृगाय मुक्त बाणे स्खलिते साश्चर्यकरस्पर्शादाकाशनिर्विशेषां स्फटिकरत्नशिलां नृपोचितां विज्ञाय वसुनृपायाख्यव्याधः, वसुश्च तामानाय्य प्रच्छन्नं सिंहासनं तयाऽचीकरत्, शिल्पिनश्च जबान । आस्थाने च तस्मिन्नासने स्वयं निविष्टः, न चासनासन्ने कोऽपि | गन्तुं लभते । ततः सत्यादिगुणैर्वसुर्वमुमतीशो व्योम्नि तिष्ठतीति प्रोच्छलितः प्रबादः । अन्यदा नारदो गुरौ गोसाद्गुरुसुतमालोकयितुमायातः । अत्रान्तरे "अजैर्यष्टव्य"मिति ऋग्वेदपदं नारदसमक्षं शिष्येभ्यः पर्वतो व्याख्यानयति. यथा-'अजा'पशवस्तैर्यष्टव्यमिति । एतच्चाकर्ण्य कर्णौ पिधाय ऋषिणोक्त-आः!! शान्तं पापमिति, यतो हन्त यदि पशुभियज्ञो भोतमा व्यासेन पण्डितादि पुरुष] चतुष्टय लक्षणं कुर्वता यदुक्तं
CAREE
॥११४॥