________________
पुष्पमाला लघुवृत्तिः ॥११०॥
त्यज? इत्याह-'त्रिविधेन' मनसा वचसा कायेन चेत्यर्थः, एवं च कुर्वता षड्जीवकाययतनासु प्रयत्नः कृतः स्यादिति भावः, इति गाथार्थः ।। १४३ ॥ अस्य च विशेषतः कर्तव्यतामाह| जइ मिच्छदिटियाण वि, जत्तो केसिंचि जीवरक्खाए। कह साहहिं न एसो, कायवो? मुणियसारेहिं ॥१४४॥ | ___व्याख्या–यदि नाम अविदितपरमार्थानां मिथ्यादृशामपि केषाश्चित्वाभिप्रायतो जीवरक्षायां कोऽपि कथञ्चिद्यत्नो दृश्यते, तर्हि कथं ज्ञातसिद्धान्तसारैः साधुभिरेष-जीवरक्षायत्नो न कर्त्तव्यः?, कर्त्तव्य एवेत्यर्थः, इति गाथार्थः॥ १४४ ॥
नन्वशक्यानुष्ठानत्वान्न केनाप्यसौ कृतो भविष्यतीत्याह| नियपाणच्चाएण वि, जणंति परपाणरक्खणं धीरा । विसतुंबओवभोगी, धम्मरु ई एत्थुदाहरणं ॥ १४५॥
व्याख्या-निजप्राणत्यागेनापि धीराः परप्राणरक्षणं जनयन्ति, अत्र विषतुम्बकोपभोगी धर्मरुचिरुदाहरणं-दृष्टान्तः, स चायं
इह चम्पापुर्यां सोम-सोमदत्त-सोमभूतिनाम्नां विप्राणां बन्धूनां नागश्री-भूतश्री-यक्षश्रियो भार्याः, अन्यदा मधुरभ्रान्त्या कटुतुम्बं नागश्रिया उपस्कृतं, पतिते तद्रसबिन्दौ मक्षिकामृतेतिं परमार्थ, गोपितं च । इतश्च पूर्वधरधर्मघोषमूरिशिष्यो धर्मरुचिर्मास| [क्षपण]पारणे तत्रैव समागतः, ततो मा भृवृथा इयान्व्ययोऽन्यत्रास्य त्यागेन, दानेन चायं तोषितो भविष्यतीति विचिन्त्य तत्सर्व तया पापया तस्मै दत्तं । स च तद्गृहीत्वा गतो गुरोर्दर्शितवान् । गुरुभिश्च कथञ्चिज्ज्ञात्वा 'विषतुम्बकमिदं, ततः परिष्ठापयेत्यादिष्टः सः शुद्धस्थण्डिले गत्वा कुतोऽपि बिन्दुमेकं मुमोच, तद्गन्धेन चायाताः कीटिकास्तत्र लग्ना मृता दृष्टाः, ततो 'वरं ममैकस्य विधिना मृतिर्न त्वेवमेतस्माजन्तुसमृहस्ये ति विचिन्त्य तत्सर्व तत्रैव बुभुजे । ततो महावेदनाक्रान्तः सिद्धसाक्षिकमालोच्य प्रतिक्रम्य पादपोप
RAMAGRICULT
|४ भावना
ऽधिकारे | षड्जीवकाययतनासुधर्मरुचिकथानकं द्रौपदी चरितं च
CARRIECCORRECCLES
॥११०॥