________________
पुष्पमाला लघुतिः
॥ १०८ ॥
च यथार्थ, अनधिगते च शिष्यके तस्मिन्, तथा अपरीक्षणा च शिष्यकस्य किं जीवनिकायानसौ श्रद्धते न वा १, श्रद्धानेऽपि तान् रक्षति न वा ? इत्येवं वृषभैः सूत्रोक्तविधिना परीक्षायामकृतायामित्यर्थः । उपस्थापनां कुर्वत इति सर्वत्र गम्यम् । आज्ञाविराधनाऽनवस्थादयो दोषा जिनैर्भणिताः, तस्मात्कालक्रमेण प्राप्तादीनेवोपस्थापयेन्नान्यानिति गाथार्थः ॥ १३८ ॥
उपस्थापनायोग्यतायां कालक्रममाह
सेहस्स तिन्निभूमी, जहन्न तह मज्झिमा य उक्कोसा। राईदिय सत्त चउमा-सियाय छम्मासिया चेत्र ॥१३९॥
व्याख्या - शिष्यक [शैक्ष]स्य अभिनवदीक्षितस्य व्रतोपस्थापनायां कर्त्तव्यायां तिस्रोभूमिका - योग्यतास्थानानि तद्यथा - जघन्या तथा मध्यमा उत्कृष्टा च । तत्र जघन्या सप्ताहोरात्रिकी मध्यमा चातुर्मासिकी उत्कृष्टा षाण्मासिकी चेति । सप्ताहोरात्रादिभिरतिक्रान्तैव्रतोपस्थापनायोग्य : शैक्षकः स्यादिति गाथार्थः ॥ १३९ ॥ तत्र कस्य का भूमिर्भवेदित्याह -
पुग्वोवपुराणे, करणजयट्ठा जहण्णिया भूमी | उकोसा उ दुम्मेहं, पडुच अस्सहाणं च ॥ १४० ॥
व्याख्या - 'पुराणः' समयभाषया व्रतभ्रष्ट उच्यते, पूर्व व्रतेषूपस्थापितः पूर्वोपस्थापितः स चासौ पुराणश्च पूर्वोपस्थापित पुराणः, तस्मिन् यथोक्ता जघन्या भूमिः, कर्मक्षयोपशमवशात् पुनरप्यसौ कथञ्चित्प्रत्रजितोऽपि सप्तभिरहोरात्रैरतिक्रान्तैर्वतेषूपस्थाप्यते । ननु तस्य सूत्रं धतमेव, ततश्च सप्ताहोरात्रातिक्रममपि यावत्किमर्थं विलम्बित ? इत्याह- 'करणानी' इन्द्रियाणि, तज्जयार्थ, एतावन्तमपि कालं विना करणजयोऽपि सम्यङ्न ज्ञायत इत्याशयः । उत्कृष्टा तु पाण्मासिकी भूमि दुर्मेधसं - मन्दप्रज्ञं प्रतीत्य, तस्य हि यथोक्त मूत्रं शीघ्रमेत्र
४ भावना
ऽधिकारे
अविधिनो पस्थापने
दोषाः
शैक्ष्यभू
म्यादयच
॥ १०८ ॥