________________
* A
पुष्पमाला लघुतिः ॥९८॥
४ भावनाऽधिकारे अखण्डित स्वमुपस्थापनातस्सामायिकस्य
RSHANKARI
ननु चेवरमपि सामायिकं करोमि भदन्त ! सामायिकं यावज्जीव'इत्येवं यावदायुस्तावदागृहीतं, तत उपस्थापनाकाले तत्परित्यजतः कथं न प्रतिज्ञाभङ्गः?, उच्यते-नतु, प्रागेवोक्तं-सर्वमेवेदं चारित्रमविशेषतः सामायिक, सर्वत्रापि सर्वसावद्ययोगविरतिसद्भावात् , केवलं छेदादिविशेषैर्विशिष्यमाणमर्थतः शब्दान्तरतश्च नानात्वं भजते, ततो यथा यावत्कथिक सामायिकं छेदोपस्थापनं वा परमविशुद्धिविशेषरूपसूक्ष्मसम्परायादिचारित्रावाप्तौ न भङ्गमास्कन्दति तथेत्वरमपि सामायिकं शुद्धिविशेषरूपच्छेदोपस्थापनावाप्तौ, यदि प्रव्रज्या | परित्यज्यते तर्हि तद्भङ्ग आपद्यते, न[तु]नु (?) तस्यैव विशुद्धिविशेषावाप्तौ । [ यदुक्तम् ] "नणु भणि सव्वं चित्र, सामाइअमिण विशुद्धि उभिन्नं । सावजविरहमइयं, को अविलोवो विसुद्धीए १ ॥१॥ उन्निखमओ भंगो, जो पुण तं चिअ करेह सुद्धयरं । सन्नामित्त विसिह, सुहम पि व तस्स को भंगो? ॥२॥"
तथा छेदः पूर्वपर्यायस्य उपस्थापना च-आरोपणा महाव्रतेषु यस्मिंश्चारित्रे तच्छेदोपस्थापनं, तच्च विधा-सातिचारं निरतिचारं च ।। तत्र निरतिचारं यदित्वरसामायिकवतः शैक्षकस्यारोप्यते, तीर्थान्तरसङ्क्रान्तौ वा, यथा श्रीपार्श्वनाथतीर्थावर्द्धमानस्वामितीर्थ सङ्क्रामतः पश्चयामधर्मप्रतिपत्तौ । सातिचारं यन्मूलघातिनः ब्रतोच्चारणं, उक्तं च___ "सेहस्स निरइयारे, तित्थंतरसंकमेव तं हजा। मूलगुणघाइणो सा-इआरमुभयं च ठिकप्पे ॥१॥"
'उभयं चेति सातिचारं निरतिचारं च स्थितकल्पे-प्रथमपश्चिमतीर्थकरतीर्थे । तथा परिहरण परिहारस्त गोविशेषस्तेन वि] शुद्धिर्यस्मिश्चारित्रे तत्परिहारविशुद्धिकं । तच्च द्विधा-निर्विशमान निर्विष्टकायिकं च, तत्र निर्विशमानका विवक्षितचारित्रासेवकाः, निर्विष्टकायिका आसेवितविवक्षितचारित्रकायाः, तदव्यतिरेकाचारित्रमप्येवमुच्यते । इह नवको गणश्चत्वारो निर्विशमानकाश्चत्वारोऽनुचारिण 15
॥ ९८॥