SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ पुष्पमाला लघुवृत्ति: ॥ ९७ ॥ इति प्रकारा अन्या अपि सामाचार्योऽत्रोत्तरगुणेषु द्रष्टव्या इति गाथार्थः ।। ११८ ॥ उक्तं लेशतो भेदतश्चारित्रं, एवमन्येऽपि चरणभेदा इह वाच्या इति पूर्वार्द्धन सूचयन्नुत्तरार्द्धेन तदईद्वार प्रस्तावनां च कुर्वन्नाह - इय एवमाइभेयं, चरणं सुरम असिद्धिसुहकरणं । जो अरिहड़ इय घेत्तुं जे तमहं वोच्छं समासेणं ॥ ११९ ॥ व्याख्या - इत्येवमादयः सामायिक च्छेदोपस्थापनीय - परिहारविशुद्धि-सूक्ष्मसम्पराय - यथाख्यातलक्षणा भेदा यस्य तत्तथाभूतं । तत्र समो - रागद्वेषरहितत्वात्, अयो- गमनं समायः, एष अन्यासामपि साधुक्रियाणामुपलक्षणं, सर्वासामपि साधुक्रियाणां रागद्वेषरहितत्वात्, समायेन निर्वृत्तं समाये भवं वा सामायिकं, यद्वासमानां - ज्ञानदर्शनचारित्राणामायो - लाभः समायः, समाय एव सामायिकं । "विनयादिभ्यष्ठक् " [पा० ५-४-३४ तथा “ठस्येकः" पा० ७-३-५० ] इति खार्थे [ ठगिको ] इकण् । तच्च सर्व सावद्यविरतिरूपं, यद्यपि सर्वमपि चारित्रमविशेषतस्सामायिक, तथ पि छेदादिविशेषैर्विशिष्यमाणमर्थतः शब्दान्तरतश्च नानात्वं भजते, प्रथमं पुनरविशेपणात् सामान्यशब्दे एवावतिष्ठते सामायिकमिति । तच्च द्विधा इत्वरं यावत्कथिकं च तत्रेत्वरं भरतैरावतेषु प्रथमपश्चिमतीर्थकर तीर्थेषु अनारोपितमहाव्रतस्य शैक्ष्यस्य विज्ञेयम्, यावत्कथिकं प्रव्रज्याप्रतिपत्तिकालादारभ्य मरणं यावत् भरतैरावतभाविमध्यमद्वाविंशतितीर्थकरतीर्थेषु विदेहतीर्थकर तीर्थेषु च साधूनामवसेयं तेषां उपस्थापनाया अभावात् । "सत्रमिण सामाइ अच्छे आइबिसेमिअं पुण विभिन्नं । अविसेमिअसामाइअं, ठिअमिह सामन्नसन्ना ॥ १ ॥ " "सावज्जजोगविरह-त्ति तत्थ सामाइअं दुहा तं च । इत्तरमाव कहति अ, कति पढमंतिमजिणाणं ॥ २ ॥ " "तित्थेसु अणारोविअ - वयस्स सेहस्स थेवकालीअं । सेसाणमावकहिअं, तित्थेसु विदेहगाणं च ॥ ३ ॥ " ४ भावना ऽधिकारे द्वैविध्यं सामायिकचारित्रख ॥ ९७ ॥
SR No.600375
Book TitlePushpamala Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri, Buddhisagar
PublisherJindattasuri Bhandagar
Publication Year1961
Total Pages336
LanguageSanskrit
ClassificationManuscript
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy