SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ पुष्पमाला लघुवृत्तिः ।। ९५ ।। " सट्टा, उद्धडा तह अप्पलेवडा चेव । उग्गहियां परगहियाँ, उज्झिम्मा यमत्तमिया ॥ १ ॥ इति गाथोक्तसप्तभिक्षामध्या[दा] द्यद्वयवर्जनाच्छेषपञ्चकेऽपि कृतभिक्षाद्वयाभिग्रहैर्दिने दिने एकां दत्तिं भक्तस्यैकां पानकस्य गृहद्भिरेकं मासं यावदेवं परिकर्मणां कृत्वा गच्छान्निष्क्रम्य बहिरप्येकं मासं यावत्सर्वमिदं कृत्वा दिवा वृक्षादिमूलस्थै रात्रौ श्मशानादावेकपुद्गलन्यस्तदृष्ट्या कायोत्सर्गकारिभिर्यत्रास्तं यात्यादित्यस्ततः स्थानात् हस्त्यादिभयेऽपि पदमात्रमव्यसञ्चरद्भिर्विकटोदकेनापि पादाप्रक्षालकैः स्थित्वा चतुर्विधसङ्खेन महाप्रभावनया राजादिसम्मुखानयनादिभिर्महद्धय पञ्चशब्दादिवादनपूर्व प्रवेश कमहोत्सवेन नगरमध्येन गच्छमध्ये आगम्यते, एवं सर्वाखपि महोत्सवः क्रियते । एवं मासद्वयेन प्रथमा प्रतिमा पूर्णा भवेत् । एवमेव पूर्वोक्तरीत्या तस्मिन्नेव वर्षे द्वितीया प्रतिमा प्रारभ्यते, मासद्वयं गच्छमध्यस्थैः परिकर्म्मणापूर्व मासद्वयं वहिः स्थित्वा गच्छे आगम्यते । एवं मासचतुष्केण द्वितीया पूर्णा भवति, नवरं - द्वितीयाद्यासु सप्तमीं यावदेकका दत्तिर्भक्तस्यैकैका पानकस्य क्रमक्रमेणाधिकी क्रियते । एवं प्रथमवर्षे प्रतिमाद्वयँ सम्पूर्यते । तृतीया तु मासत्रयं गच्छे मासत्रयं बहिरेवं षड्भिर्मासैर्द्वितीयवर्षेण पूर्यते । चतुर्थ्यपि मासचतुष्टयं गच्छे मासचतुष्टयं बहिरेवं तृतीयवर्षेण सम्पूर्णा भवेत् । ततः पञ्चमी मासपञ्चकं यावत् गच्छमध्ये चतुर्थ वर्षे परिकर्म्मणा पञ्चमे वर्षे मासपञ्चकं, बहिरवस्थानेन वर्षद्वयेन पूर्णा स्यात् । षष्ठयपि पष्ठसप्तमवर्षाभ्यां मासपद्कं गच्छमध्ये परिकर्म्मणया मासषट्कं बहिरवस्थानेन स्यात् । सप्तम्यपि अष्टमनवमवर्षाभ्यां गच्छे माससप्तकं परिकर्म्मणया माससप्तकं बहिर्यथोक्तविधिना महाकष्टावस्थानेन पूर्यते । एवं स - प्तापि नवभिर्वर्षैः षट्पञ्चाशता मासैः सम्पूर्णा भवन्ति । तथाऽष्टमी प्रतिमा [ प्रथमा ] सप्तरात्रिन्दिवा नाम सप्तभिर्दिनैरेकान्तरितैः पानकाहारवर्जितैश्चतुर्भिश्चतुर्थैः पारणका चाम्लैस्त्रिभिर्गच्छमध्यस्थैरेव साधुभिः सकलां रात्रिं यावदुत्तानकपार्श्ववर्त्तिस्थानशायिभिरूर्ध्वपादैर्निष 46 ४ भावनाऽधिकारे उत्तरगुणा त्मकः मिक्षुप्रतिमानिरूपणम् ।। ९५ ।।
SR No.600375
Book TitlePushpamala Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri, Buddhisagar
PublisherJindattasuri Bhandagar
Publication Year1961
Total Pages336
LanguageSanskrit
ClassificationManuscript
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy