________________
पुष्पमाला लघुचिः
॥ ९२ ॥
चतुर्द्धा, पुनरपि प्रत्येकं द्विधा - देशतः सर्वतश्च, अस्मिनङ्गीकृते आहारशरीरसत्कारयोः परिहारो ब्रह्मचर्याव्यापारयोरासेवनं च देशतः
तथा च यत्पर्यवाचकशब्दवाच्यमनुष्ठानं तत्कथमपर्व स्वपि विधेयतया प्रतिपादयितुमपि शक्यते ?, न कथमपीति ।
ननु निरवद्यानुष्ठानस्य सर्वदा विधेयत्वस्वीकारे को दोषः १, प्रत्युत कर्मनिर्जरादिविशिष्टलाभायैव भविष्यतीति चेतर्हि पाक्षिकादिप्रतिक्रमणानां कथं न सर्वदा विधेयत्वं स्वीक्रियते ?, किं तेषां सर्वदा करणे कर्मनिर्जरादिविशिष्टकाभो न भविष्यति ?, स्वाध्यायकरणेऽपि च किं प्रयोजनमस्वाध्यायकालवेलादे वर्जनस्य ?, कुर्वन्तु यदातदा कालेकाले यदच्छया, कर्मनिर्जगदिविशिष्टका भस्यानापि समानत्वात् । चेच्छानाज्ञा भङ्गप्रसङ्गान्न तथा स्वीक्रियते तदा कथमाग्रहः पौषधस्य प्रतिदिवसेष्वविधेयत्वस्वीकारे ?, अत्रापि "प्रतिनियतदिवसानुष्ठेयौ न प्रतिदिवसा (नुष्ठेयौ) चरणीयौ” इत्येतच्छास्त्राज्ञाया भङ्गप्रसङ्गः सुदुर्निवार एवेति विमृश्यं पक्षपात विकले स्तस्य विवेचकैरित्यलम् |
* कृतचतुर्विधाहारप्रत्याख्यानिनस्सर्वतो मुक्त्वौपधानिकमन्यपौषधे विविधाहारोपोषितस्य देशतो भवति, आहारचतुष्कादन्यतरत्यागस्यैव देशत्वेन उपदेष्टुमुचितत्वात् । कृते त्रिविधाहारोपवासे आहारचतुष्कस्यैकदेशे यस्मासुकोदकं, तस्य मुस्कलरवेन शेवाहारत्रिकस्य त्यागेन च युक्तियुक्तमेव तत्र 'देशत भा हारपौषध' इति व्यपदेष्टुं । अभ्यश्च - नामाप्येकादशव्रतस्य न केवलं 'पौषध' इत्येतावन्मात्रमेव, किन्तु 'पौषधोपवास' इति, तच विनोपवासं न कथमपि सफलीभूतं भवितुमर्हति, अतस्तत्रोपवासकरणमेव न्याय्यं तथा चोक्तं परमगुरुभिर्नवाङ्गवृत्तिसूत्रण सूत्रधारैः श्रीमदभयदेवसूरि पूज्यै:- "पौषधं - पर्वदिनमष्टम्यादिस्तत्रोपवासोऽभक्तार्थः पौषधोपवास इति, इयं तु व्युत्पत्तिरेव, प्रवृत्तिस्त्वस्य शब्दस्याहारशरीरसत्काराब्रह्मचर्यव्यापारपरिवर्जनेविति ध्येयम्" इति समवायाङ्गवृत्तौ १९ पत्रे । अनेन सिद्ध पौषधेऽभोजनं । ये पुनर्ददन्ति पौषधे भोजनाभ्यनुज्ञां तेऽप्यपवादत एव नोत्सर्गतः, पश्यन्तु तपागच्छीयाचार्य श्री मस्सोम सुन्दरसूरिशिष्य श्री हेमहंसगगिकृतावश्यक बाला वबोधस्यैतं पाठं-" तृतीयशिक्षावतं पौषधोपवासः, स च पर्वतिथिवहोरात्रं यावच्चतुर्विधाहारत्यागेन, तथा न शक्नोति चेत्तदा त्रिविधाहार परित्यागेन, एवमप्यशक्तावपवादत आचाम्लादिसमुच्चार्य भोजनं क्रियते" इति । तथा चापवादमुत्सर्गे निक्षिप्योपधानमन्तरेणापि पौषधे भोजनकरणप्रथनं वक्तुः पृथुस्थूलबुद्धेरनुमापकं । उपधाने स्वनुमतं पौषधिकस्य भोजनकरणं सर्वगच्छीयाशठगीतार्थैरित्यदोषः ।
४ भावनाऽधिकारे
बिनोपधानं सोपवास त्व मुत्सर्गतः पौषध
॥ ९२ ॥