SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ पुष्पमाला ४ भावना लघुवृत्तिः ऽधिकारे ॥९१॥ पौषधकतव्यता नियमः। तनावश्यकवृश्यादावभावात् । अवलोकयन्तु चैतद्वावदूकवचनं-नहीदं [न प्रतिदिवसाचरणीयाविति वचनं पर्वान्यदिनेषु पौषधनिषेधपरं, किन्तु पर्वसु पौषधकरणनियमपरं, पथा आवश्यकवृत्यादौ श्राद्धपञ्चमप्रतिमाऽधिकारे 'दिवैव ब्रह्मचारी, न तु रात्रौ' इति वचनं दिवसे ब्रह्मचर्य नियमार्थ, न तु रात्री ब्रह्मनिषेधार्थ, अन्यथा पञ्चमप्रतिमाऽऽराधकाढेन रानावब्रह्मचारिणैव भाव्यमिति पापोपदेश एव दत्तः स्यात् , रात्री ब्रह्म गलने प्रतिमाऽतिचारश्च प्रसज्येत" इति श्राद्धप्रतिक्रमणसूत्रवृत्तावर्थदीपिकायां १६५ पत्रे । अनावश्यकवृत्यादिनाना पञ्चमप्रतिमाराधनावमुद्दिश्य "दिवैव ब्रह्मचारी, न तु रात्रौं" इति यदुक्तं, तनितान्तमसत्यम् , कस्मिन्नपि शास्त्रे तथाविधशब्दगन्धस्याप्यभावात , तथा च दश्यते कतिचिच्छास्त्रपाठाः पाठकानां मतिमोहनिरासाय“दिमा बंभयारी, राती परिमाणकडे अपोसहिए । पोसहिए रत्तिम्मि अ, नियमेणं बंभयारी अ ॥ १॥" भावश्यकचूहद्वृत्ति, पत्र ६४७ । “दिमा बंभयारी, राति परिमाणकडे " समवायागसूत्र, पत्र १९ ।। "असिणाण विभडभोई, मउलिमडो दिवसबंभयारी अ । रत्ति परिमाणकडो, पडिमावज्जेसु दिवसेसु ॥१॥" प्रवचनसारोद्धार, पत्र २९४ । "जाव पडिमा पंचमासिभा न समप्पति ताव दिवसओ बंभयारी, रत्ति परिमाणं करेति-पग दो तिन्नि धा धारे अपोसहिओ, पोसहिओ रत्ति पि बंभयारी" इति पञ्चाशकचूर्णिः । नास्त्येतेषु पाठेषु "दिवैव ब्रह्मचारी, न तु रात्रौ” इत्यर्थगन्धोऽपि, तथाऽप्येवं प्राच्यशास्त्रपाठपरावर्तनद्वारा स्वाभिमतसिद्धये पूर्वाचार्योपरि पापोपदेशदानस्य यस्कलकदानं तत्र मुक्त्वा स्वमताभिनिवेशब्युग्राहित्वं नान्यत् किमपि कारणमवतरति दृष्टिपथे । अन्या-ये पर्व तिथिवृद्धिप्रसके सूर्योदयात्सम्पूजाहोरात्रावस्थायिनीषु प्रथमाष्टम्यादिपर्वतिथिध्वपि स्वयं पौषधादिधर्मकार्यानिषेधयन्तोऽपि “पादवलकान्ती न पश्यति" इति न्यायं स्मारयन्नन्योपर्यपर्षपौषधनिषेधकत्वास दोषारोपणं कुर्वन्ति तैर्विचार्यमेतत् , यदुत-पौषधशब्दोऽपि पर्वस्यैव वाचको, नापर्वस्य, यदुक्तं श्रीमस्खरतरगच्छगगनाङ्गणनभोमणिकल्पैर्नवाझवृत्तिकारैः श्रीमदभय देवरिपादैः-“पौषधं-पर्वदिनमष्टम्यादिः" इति समवायाझवृत्तिः, पत्र १९ । एवमेव " पोषं धत्ते पौषधः-अष्टमीचतुर्दश्यादिपर्वदिवसः" इति धर्मबिन्दुवृत्तौ श्रीमन्मुनिचन्द्रसूरयः । तथा "पौषधः पर्व इत्यनर्थान्तरं" इत्युमास्वातिवाचकमिश्रास्तत्वार्थभाध्ये, तथैव "पौषधः पति नार्थान्तरं" इति तरवार्थवृत्तौ। इस्याद्यनेकैः श्रुतधरैः पौषधशब्द एव पर्ववाचकत्वेनोक्तः । * ॥९ ॥
SR No.600375
Book TitlePushpamala Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri, Buddhisagar
PublisherJindattasuri Bhandagar
Publication Year1961
Total Pages336
LanguageSanskrit
ClassificationManuscript
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy