SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ पुष्पमाला लघुवृत्तिः ॥ ९० ॥ रित्रैर्युज्यते । समायः प्रयोजनमस्य क्रियाऽनुष्ठानस्येति सामायिकं, सावद्यपरित्यागनिरवद्यासेवनरूपो x व्रतविशेष इत्यर्थः । इदं च श्रावकेण प्रतिदिवसमन्तरान्तरा यत्नेन कर्त्तव्यम्, यदुक्तं आगमे - "जाहे खणिओ ताहे सामाइयं कुज्जा" इत्यादि [ आवश्यकचूर्णौ ] १ | तथा देशावकाशिकलक्षणं द्वितीयं शिक्षावतं, तत्र गृहीतसविस्तरदिक् प्रमाणस्य देशे - सङ्क्षिप्तविभागेऽवकाशः - अवस्थानं देशावकाशिकस्तेन निर्वृत्तं देशावकाशिकं, बहुतरदिक् परिमाणसङ्कोचरूपमिति भावः २ । तथा पौषधस्तृतीयं शिक्षात्रतं, तत्र पोषं पुष्टिं प्रक्रमाद्धर्म्मस्य धत्तेकरोतीति पौषथः, अष्टमीचतुर्दशी पौर्णमास्यमावास्यापर्वदिनानुष्ठेयो + व्रतविशेषः । अयं च आहारशरीरसत्कारब्रह्मचर्याव्यापारपौषधभेदा X न हि निरवद्यासेवन - सावद्यपरित्यागरूपो, यत एतदेवार्थख्यापकस्समुपलभ्यते “सामाइयं नाम सावज्जजोगपरिवजणं निरवज्जजोगपडिसेवणं च” इत्यावश्यकसूत्रपाठस्तथैव “सिक्खावयं तु पत्थं, सामाइयमो तयं तु विष्णेयं । सावज्जेयरजोगाण, वज्रणासेवणारुवं ॥१॥" ज्याख्या-xxx 'तकं तु' तत्पुनः सामायिकं 'विज्ञेयं' ज्ञातव्यं 'सावद्येतरयोगानां' सपापनिष्पापव्यापाराणां यथासङ्ख्यं [अनुक्रमेण] न त्वयथासङ्ख्यं, 'वर्जनासेवनरूपं ' परिहारानुष्ठानस्वभावं" इति नवाङ्गवृत्तिकारक श्रीमदभयदेवसूरि पुरन्दरसम्बन्ध पञ्चाशक वृत्तिपाठः २२ पत्रे । एतदादिशास्त्रप्रमाणैः स्फुटतरं ध्वन्यते सावद्यपरिवर्जनरूपसामायिकोच्चारादर्वानिरवद्यासेवनात्मि केर्याप्रतिक्रान्तेर्निषेधः, सावचेतरयोगानां यथासख्यमनुक्रमेणैव वर्जनासेनरूपत्वेनोक्तस्वात् । अपरं च-अकृत्वा सावधमलोत्सर्जनं शुद्धिहेतोः प्रागीर्यांप्रतिक्रान्त्यभ्युपगन्तृमतेन स्वावश्यकादौ "सामाइ नाम निरवज्जजोगपढिसेवणं सावजजोगपरिवज्जणं च" इत्येवं पाठो लिखितुमुचितोऽभूत् परं न क्वाप्येवमुपलभ्यतेऽतो युक्तियुक्तैव शास्त्रकाराभीष्टाऽपि च सामायिकोच्चारादन्वीर्याप्रतिक्रान्तिः । x नापर्वस्वपि यदृच्छयाऽनुष्ठेयः, शास्त्रेष्वस्याष्टभ्यादिप्रतिनियत दिवसेष्वेवानुष्ठेयत्वेन प्रतिदिवसेष्वनाचरणीयत्वेन चोक्तत्वात् तथाहि पौषधोपवासातिथिसंविभागौ तु प्रतिनियत दिवसानुष्ठेयौ न प्रतिदिवसा (नुष्ठेयौ ) चरणीयो" इति पञ्चाशक वृत्ति (पत्र 30 ) आवश्यक वृहद्वृत्ति (पत्र ८३९ ) श्रावकप्रज्ञप्तिवृत्ति (पृष्ठ १८२) तस्वार्थ (अ० ७ सूत्र १६ वृत्याद्यनेकेषु शास्त्रप्वेष एव पाठः । ये च प्रलपन्ति पण्डितम्मन्या "न प्रतिदिवसाचरणीयो" इत्यन्त्र नकारो न प्रतिषेधवाचकः, तदयुक्तं, साक्षितया परिकल्पितस्य तथाविधपाठस्यैव ४ भावनाऽधिकारे | सामायिका| दिशिक्षात्र तस्वरूपं तद्विध्या दयश्वापि ॥ ९० ॥
SR No.600375
Book TitlePushpamala Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri, Buddhisagar
PublisherJindattasuri Bhandagar
Publication Year1961
Total Pages336
LanguageSanskrit
ClassificationManuscript
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy