________________
पुष्पमाला लघुवृत्तिः
ॐॐॐॐॐॐॐॐॐॐ
देसचरणं गिहीणं, मूलुत्तरगुणविअप्पओ दुविहं । मूले पंच अणुव्वय, उत्तरगुण दिसिवयाईआ ॥११५॥
W४ भावना-देशचरणं गृहिणामेव भवेत् , न यतीनां, तेषां सर्वचारित्र एवाधिकारात् । तदपि कतिभेदं ? इत्याह-मृलोत्तरगुणविक-*
ऽधिकारे ल्पतो-मूलोत्तरगुणभेदाभ्यां तदपि द्विविधं । तत्र मूले-मूलगुणविषये पञ्चाणुव्रतानि, तत्राणूनि-महाव्रतापेक्षया लघूनि व्रतानि अणुव्र- देशचारि| तानि, अणोर्वा गुणापेक्षया यतिभ्यो लघोः श्रावकस्य व्रतान्यणुव्रतानि, अथवा देशनाकाले महाव्रतप्ररूपणातोऽनु-पश्चात् प्ररूपणीयानि त्रस्वरूपं ब्रतान्यनुव्रतानि, यदाह-"जइधम्मस्सऽसमत्थे,जुज्जइ तद्देसणं पिसावणं"। इति,पञ्च तानि च अणुव्रतानि पञ्चाणुव्रतानि,स्थूलप्राणातिपातविरमण-स्थूलमृषावादविरमण-स्थूलादत्तादानविरमण-परदारविरमणखदारसन्तोष-अपरिमितपरिग्रहविरमणलक्षणानि । एतानि च श्रावकधर्मातरोर्मूलकल्पत्वान्मूलगुणाः। दिग्वतादीनि तु तदुपचयलक्षणगुणहेतुत्वेन श्रावकधर्मद्रुमस्य शाखाकल्पा उत्तरगुणाः, उत्तररूपा गुणा उत्तरगुणास्ते च दिग्वाताद्याः सप्त । तत्रोधिस्तिर्यदिग्गमनपरिमाणकरणं दिग्व्रतम् १। तथा नियतपरिमाणोपभोगपरिभोगकरणमुपभोगपरिभोगवतम् । इदं च द्विधा-भोजनतः कर्मतश्चेति । तथाऽनर्थदण्डविरमणं, तत्र अर्थः-प्रयोजनं, तदभावोऽनर्थः, | दण्ड्यते आत्माऽनेनेति दण्डः, अनर्थेन-प्रयोजनाभावेन निजजीवस्य दण्डोऽनर्थदण्डः, स चतुर्दा, तद्यथा-अपध्यानं प्रमादाचरितं हिंस्रप्रदानं पापकर्मोपदेश इति । तस्माद्विरमणं अनर्थदण्डविरमणं । एतानि च दिग्वतादीनि त्रीण्यपि गुणव्रतान्युच्यन्ते, अणुव्रतानां गुणाय-उपकाराय व्रतानि गुणव्रतानीतिकृत्वा, भवति ह्यणुव्रतानां गुणव्रतेभ्य उपकारो, विवक्षितक्षेत्रादिभ्योऽन्यत्र हिंसादिनिषेधादिति ।
अथोत्तरगुणचतुष्टयरूपाणि चत्वारि शिक्षाव्रतानि उच्यन्ते । तत्र शिक्षा-अभ्यासस्तत्प्रधानानि व्रतानि शिक्षाव्रतानि, पुनः पुनरासेव| नार्हाणीत्यर्थः । तानि च सामायिकादीनि, तत्र समस्य-रागद्वेषरहितस्य जीवस्य आयो-लाभः समायः, समो ह्यनुक्षणमपूर्वज्ञानदर्शनचा
ACCOURS