________________
पुष्पमाला लघुवृत्तिः
॥ ८८ ॥
प्राप्तव्यो, नान्यथा, उक्तं च- " सुट्ट्टु बि सम्मद्दिट्ठी, न सिज्झट चरणकरणपरिहीणो" इत्यादि । तद्यद्यग्रेऽप्यवश्यं प्रतिपत्तव्यमेवेदं मोक्षार्थिना तदिदानीमेव प्रतिपद्यख येन शीघ्रमेव समीहितं सिद्ध्यतीति । एवं च सति सम्यक्त्वशुद्धिद्वारानन्तरं चरणशुद्धि-. द्वारमभिधीयत इति पूर्वद्वारेण सम्बन्धाभिधानमिति गाथार्थः ||११२ || अथ चरणस्वरूपमेव किञ्चिद्विस्तरतो विभणिपुर्द्वारगाथामाहकिं चरणं? कईभेयं?, तरिहं पडिवत्तिविहिपरूवणय । उस्सग्गऽववाएहि य, तं कस्से फलं व किं तसं ॥११३॥ व्याख्या - किं चरणमिति तत्स्वरूपं तावद्वाच्यं ततः कतिभेदं तदिति वक्तव्यं । ततस्तदहश्चिरणयोग्या जन्तवो वाच्याः । ततोऽपि चरणस्य प्रतिपत्तिविधिप्ररूपणा कार्या । ततश्चोत्सर्गापवादैश्व, शुद्धमिति शेषः, तच्चरणं कस्य साधो भवतीत्यभिधानीयं । फलं वा - साध्यं किं तस्येति वाच्यमिति सङ्क्षेपार्थः । विस्तरार्थस्तु सूत्रकार एवाहसावज्जजोगविरई, चरणं ओहेण देसियं समए । भेषण उदुवियप्पं, देसे सव्वे य नायव्वं ॥ ११४ ॥
व्याख्या - सह अवधेन - पापेन वर्त्तन्त इति सावद्याः, योगाः - जन्तुघातादिहेत्वारम्भादिव्यापारास्तेषु सावद्ययोगेषु या विरति - र्निवृत्तिस्तच्चरणं - सपापव्यापारपरिहाररूपं, ओघेन - सामान्यतो देशसर्वादिविचार विरहेण समये - सिद्धान्ते देशितं - कथितमित्यर्थः । गतं. किंचरणमिति द्वारं, कतिभेदं तदित्याह - भेदेन तु चिन्त्यमानं द्विविकल्पं - द्विप्रकारं चरणं ज्ञेयम् । तदेव द्वैविध्यमाह - देशे - स्थूलप्राणातिपातादौ सर्वस्मिथ स्थूलसूक्ष्मजीवघातादौ विरतिरूपं चरणं ज्ञातव्यं, देशचारित्रं सर्वचारित्रं चेत्यर्थः, इति गाथार्थः ॥ ११४ ॥ कस्य पुनस्तावद्देशचरणं भवतीत्याह
५ शुद्धि
ऽधिकारे
चारित्रमन्तरेणावाससम्यक्त्वा
नामप्य न
वाप्यत्वं
मोक्ष
॥ ८८ ॥