________________
-
है जस्स भवे संवेओ, निव्वेओ उक्समो य अणुकंपा। अत्थित्तं जीवाइसु, नजइ तस्सऽथि सम्मत्तं ॥११०॥2 पुष्पमाला
४ि भावनालघुवृत्तिः । व्याख्या-यस्य भवेत् संवेगो निर्वेद उपशमोऽनुकम्पा जीवादिष्वस्तित्वं च, तस्य जन्तोरेतैर्लिङ्गैर्जायते, यदुत-अस्ति सम्यक्त्वं । | PISधिकारे ॥८६॥ तत्र सांसारिकसुखपरिहारेण मुक्तिसुखाभिलाषस्संवेगः १ । सांसारिकदुःखेभ्यो निर्विण्णता निर्वेदः २ । अपराधवत्यप्यक्षमावर्जनमुप- संवेगादीनि 18| शमः ३ । अविशेषतो दुःखितसत्त्वेषु कारुण्यमनुकम्पा ४ । शङ्काकाङ्क्षादिरहितो जिनोदिततत्त्वाभ्युपगमो जीवाद्यस्तित्वमिति गाथार्थः
सम्यक्त्व
गमकानि ॥११० ॥ अपराण्यपि सम्यक्त्वगमकानि लिङ्गान्याह
लिङ्गानि F| सव्वत्थ उचियकरणं, गुणाणुराओ रई य जिणवयणे । अगुणेसु अ म_त्थं, सम्मदिहिस्स लिंगाइं ॥१११॥3 1 व्याख्या-सम्यग्दृष्टेस्तद्भावगमकान्येतान्यपराण्यपि लिङ्गानि स्युः, कानि ? इत्याह-सर्वत्र देवगुरुमातृपितृखजनादिपूचितकरणं १, 181 तथा ज्ञानादिषु औदार्यगाम्भीर्यमार्गानुयायितादिषु च गुणेष्वनुरागः-प्रीतिः २, तथा रतिश्च तस्य जिनवचन एव स्यात, यदाह"यूनो वैदग्ध्यवतः, कान्तायुक्तस्य कामिनोऽपि दृढं । किन्नरगेयादधिकः, सम्यग्दृष्टेः श्रुतौ रागः ॥१॥" ३, तथा अगुणेषु च-गुणरहितेषु च प्राणिषु माध्यस्थ्य-उपेक्षैव तस्य भवतीति ४, एतानि सम्यग्दृष्टेलिङ्गानीति गाथार्थः ॥१११।। तदेवमुक्तानि किं सम्यक्त्वमित्यादिद्वाराणि, तेषां चोपलक्षणत्वादन्यदप्यत्राकारद्वारं द्रष्टव्यम् , ते चामी आकाराः-राजाभियोग-गणाभियोग-बलाभियोग-देववाभियोग-गुरुनिग्रह-वृत्तिकान्तारलक्षणाः षट्। तत्राभियोजन-अनिच्छतोऽपि व्यापारणमभियोगः,राज्ञोऽभियोगोराजाभियोगः, एवमग्रेऽपि समासः । गणः-खजनादिसमुदायः, बलं-हठप्रयोगः, देवता-कुलदेव्यादिकेति, गुरूणां-मातापित्रादीनां निग्रहो-निर्बन्धः,