________________
पुष्पमाला लघुवृत्तिः ॥८५॥
सम्यक्त्वं, तत्परिचये हि तरिक्रयाश्रवणदर्शनाभ्यां पुनरपि मिथ्याबोधोत्पत्तेः ४ । तथा तेषामेव पाखण्डिनां प्रशंसा-स्तयः, यथा-पु
४ भावनाण्यभाज एते सुतपस्विन इति । अनयाऽपि सम्यक्त्वमालिन्यं जन्यते, तत्करणे हि तेषामात्मनोऽन्येषां च मिथ्यात्वस्थिरीकरणपक्षपात-18धिकारे मिथ्यात्वगमनजिनशासनद्वेषादयो दोषाः प्रमवन्तीति, तत्तपःप्रभृतिगुणानां चाज्ञानकष्टरूपत्वेनानर्थफलत्वात , अत एते वर्जनीया इति वर्जनीयत्वं गाथार्थः ।।१०७॥ अतिचाराधिकारादन्यदपि यत्सम्यक्त्वदृषकं तनिषेधयन्नाह
सम्यक्त्वा पिंडप्पयाणहुयणं, सोमग्गहणाइलोयकिच्चाई । वजसु कुलिंगिसंगं, लोइयतित्थेसु गमणं च ॥ १०८ ॥
तिचाराणां व्याख्या-पिण्डप्रदानं पितॄणां प्रतीतं, हवनं-अग्न्यादौ तिलादिक्षेपोऽग्निकारिकेत्यर्थः, सोमग्रहणं प्रसिद्धम् , आदिशब्दात् सूर्यग्रहण- | सङक्रान्तिमाघनवम्याग्रहणं । एतानि लौकिककृत्यानि वर्जय। एतेनान्यान्यपि यानि लोकहेर्या प्रवृत्तानि कृत्यानि, तानि नियुक्तिकत्वानिषिद्धत्वान्निष्फलत्वेन जीवघातहेतुत्वेन वर्जनीयानीत्यर्थः, तथा कुलिङ्गिभिः शाक्यादिभिः सङ्गं सम्भाषणादिकं, लौकिकतीर्थेषु]कायतनेषु गमनं च वर्जयेति सम्बन्ध इति गाथार्थः ॥१०८।। ननु किमित्येवं पुनः पुनः प्राचुर्यप्रवृत्तं कुलिङ्गिसङ्गादिवर्जनं ? इत्याह| मिच्छत्तभाविअञ्चिय, जीवो भवसायरे अणाइम्मि । दढचित्तो वि छलिज्जइ, तेण इमो नणु कुसंगेहिं ॥१०९॥ 181 ___ व्याख्या-पूर्व तावजीवोऽनादौ संसारसागरे मिथ्यात्वभावित एव भवेत् , तेनायं जीवः सम्यक्त्वे दृढचित्तोऽपि निश्चितं कुसङ्गैः-18 | सहकारिभिश्छल्यते, मिथ्यात्वं नीयते इति यावत् , स्वभ्यस्तत्यक्तमदिरापानस्तद्दर्शनाघ्राणश्रवणादिभ्यस्तत्पानाभिलाषमिवेति गाथार्थः ॥१०९ ॥ उक्तमतिचारद्वारं, सप्तमं लिङ्गद्वारं बिभणिपुराह- .