SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ पुष्पमाला लावृत्तिः ॥८४ ॥ 5ASSORRBA यैस्तेऽतिचाराः, मिथ्यात्वमोहनीयोदयादात्मनोऽशुभपरिणामविशेषा इत्यर्थः । के ते ? इत्याह-शङ्कनं शङ्का, अर्हतप्रणीतेषु जीवादित-14 वेषु मतिमान्द्यादनवबुद्धयमानेषु संशयकरणमित्यर्थः, किमिदमित्थमेवान्यथा वा स्यात? इति, सा च द्विधा-जीवो नित्योपनित्यो वा ? भावना ऽधिकारे इत्यादिदेशविषया देशतः, मूलत एव जीवोऽस्ति न वा ? इत्यादि सर्वविषया सर्वत इति । द्विधाऽपि चेयं सम्यक्त्वं मलिनयति, सर्व | सम्यक्त्व | ज्ञोक्तेऽपि संशयात् १। तथा काङ्खणं काङ्खा-अन्यान्यदर्शनग्रहः, शाक्यादिदर्शनानामपि सर्वज्ञदर्शनतुल्यत्वेन विकल्पनमित्यर्थः, साऽपि लावातिचास: देशतः सर्वतश्च, तत्र यदा चित्तनिग्रहादिकं कश्चिद्धम्म सर्वज्ञोक्तमन्यदर्शने श्रुत्वा चिन्तयति-यथेदमप्येकं दर्शनं सर्वज्ञदर्शनेन तुल्यमेव, ल अत्रापि चित्तनिग्रहादेः प्रतिपादनात् , तदा देशतः. यदा त्वक्षपादादिषु बहुषु दर्शनेषु जीवदयादिकं श्रुत्वेत्थं विकल्पयति-सर्वाणि दर्श-17 नानि सर्वज्ञदर्शनतुल्यानि, जीवदयादेः सर्वत्र तुल्यत्वात् , तदा सर्वतः, इयं च द्विधाऽपि सम्यक्त्वं दूषयति । घुणाक्षरन्यायेन जीवदयादेस्तुल्यत्वेऽपि शेपैः प्रभूतधम्मैरन्यदर्शनानामतीव व्यभिचारात । अथवा ऐहिकामुष्मिकसुखादीन् कासन्तः काङ्का, इयमप्यतिचाररूपैव, अर्हन्निषिद्धाचरणरूपत्वेन मालिन्यहेतुत्वादिति २। विचिकित्सा-मतिविभ्रमः, युक्त्यागमोपपन्नेऽप्यथै फलं प्रति सम्मोहः, किमस्या5 स्तपःप्रभृतिक्रियाया उत्तरकाले फलसम्पद्भविष्यति न वा ? इति, अथवा विदितयथावस्थितवस्तुत्वाद्विद्वांसः-साधवस्तेषां जुगुप्सा विद्व-11 ज्जुगुप्सा, इत्येवमिह व्याख्यायते । एषाऽपि सम्यक्त्वदषिकैव । यदा हि मलमलिनान् साधूनालोक्य कश्चिदेवं निन्दति-हन्त !! को व दोषः स्यात् ?, यदि स्वल्पप्रासुकजलेन शरीरादिप्रक्षालनममी कुरिन्निति, तदा दृष्यत एव सम्यक्त्वं, अहंदुक्तस्याविभूषामार्गस्य नियुक्तिकत्वविकल्पमात्रेणाप्रमाणीकरणात् ३। तथा पाखण्डिनां शाक्यादीनां संस्तवः-एकत्र निवासादिरूपः परिचयः, न स्तुतिः, तस्या ॥८४॥ अनन्तरं वक्ष्यमाणत्वात् , सम्पूर्व स्तोतेश्च परिचये रूढत्वात् , यथा-" असंस्तुतेषु प्रसभं कुलेषु" इति । अनेनाप्यतिचरत्येव जीवः NAGAR
SR No.600375
Book TitlePushpamala Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri, Buddhisagar
PublisherJindattasuri Bhandagar
Publication Year1961
Total Pages336
LanguageSanskrit
ClassificationManuscript
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy