________________
है खइयं खओवसमियं, वेययमुवसामियं च सासाणं । पंचविहं सम्मत्तं, पण्णत्तं वीयरागेहिं ॥ १०६ ॥ पुष्पमाला
५४ भावनालघुवृत्तिः | व्याख्या-अनन्तानुबन्धिचतुष्टयस्य त्रिविधस्यापि दर्शनमोहनीयस्य च क्षयेण-अत्यन्तोच्छेदेन निवृत्त क्षायिकं, तच्च क्षपकश्रे- धारे ॥८३॥ णिमारोहतो भवति १। तथा उदीर्णस्य मिथ्यात्वस्य क्षयेणानुदीर्णस्य चोपशमेन सम्यक्त्वरूपतापत्तिलक्षणेन विष्कम्भितोदयत्वरूपेण सम्यक्त्वस्य यन्निवृत्तं तत्क्षायोपशमिकं २ । तथा क्षायिकसम्यक्त्वस्यैव निवर्तनकालेऽनन्तानुबन्ध्यादिषु षट्सु क्षपितेषु मिथ्यात्वपुञ्ज(सम्यक्त्वपुजे)
मेदप्रमेदार ऽपि बहुतरे क्षपिते क्षायोपशमिकचरमपुद्गलग्रासेऽवतिष्ठमानेऽद्यापि सम्यक्त्वपुद्गलानां कियतामपि वेद्यमानत्वाद्वेदकं, तदुक्तं-"सम्मत्तचरमपुग्गल-अणुभवणा वेयगं विति" ३ । तथा औपशमिकं तु प्रागुक्तमेव, यदुक्तं-"ऊसरदेसं दड्डि-लयं च विज्झाइ वणदवो पप्प । इय मिच्छस्साणुदए, उवसमसम्मं लहइ जीवो ॥१॥" उपशमश्रेण्यारूढस्य चौपशमिकं “उवसमसेढिगयस्स, होइ उवसामियं तु सम्मत्तं ।" इति ४। तथा "उवसमसम्मत्ताओ, चयओ मिच्छं अपावमाणस्स । सासायणसम्मत्तं, तयंतरालंमि छावलिया ॥१॥" इति सम्यक्त्वं पञ्चविधं प्रज्ञप्तं वीतरागैरिति । एतदेव निसर्गाधिगमभेदाद् दशधा । अथवा "निसग्गुवएसरुई, आणरुई सुतबीयरुइमेव । अभिगमवित्थारराई, किरिया संखेबंधम्मरुई ॥१॥” इति दशधा सम्यक्त्वं । रोचककारकदीपकभेदास्त्वत्रैवान्तर्भूता इति गाथार्थः ॥१०६॥18
षष्ठमतिचारद्वारं विभणिपुराहसंकाखविगिच्छा, पासंडीणं च संथवपसंसा । तस्स य पंचाइयारा, वजेयत्वा पयत्तेणं ॥ १०७ ॥
व्याख्या-तस्य च-सम्यक्त्वस्य पश्चातिचाराः प्रयत्नेन वजनीयाः, तत्रातिचरन्ति-मालिन्योत्पादनेन सम्यक्त्वमुद्रां लजयन्ति
+
॥८३॥