________________
पुष्पमाला लघुवृतिः
॥ ८२ ॥
तथाऽपीह सूक्ष्मक्षेत्र पुद्गलपरावर्त्तस्य देशोनमर्द्ध सम्भाव्यते, निश्चयं तु केवलिनो बहुश्रुता वा विदन्ति, व्यक्तनिर्णयस्यादर्शनात् । एतच्च देशोनं पुद्गलपरावर्त्तार्द्धमनन्तोत्सप्पिणीकालमानं ज्ञेयं, तदन्तेऽवश्यं क्षपितकर्म्मा निर्वृतिमानोतीति भावः, इति गाथार्थः ॥ अथ अमरादिसम्पदादिभ्योऽपि सम्यक्त्वस्य दुर्लभत्वलक्षणं गुणमाह
| लब्भंति अमरनरसं - पया उ सोहग्गरूवकलियाओ । न य लब्भइ सम्मत्तं, तरंडयं भवसमुद्दस्स ॥ १०५ ॥ व्याख्या - लभ्यन्तेऽमरनरसम्पदास्तु सौभाग्यरूपकलिताः, न च लभ्यते सम्यक्त्वं भवसमुद्रस्य तरण्डकं, उत्तारे इति शेषः । यथा चास्य दुर्लभत्वं तथा प्रागेवोक्तमिति ॥ १०५ ॥ उक्तं गुणद्वारं, अथ कतिभेदं तद्भवतीति पञ्चमद्वारमाहसर्वाण्यप्रसर्पिण्यवसर्पिणीसमयान् क्रमेणोत्क्रमेण वा मरणेन व्याप्नोति तावाम्कालविशेषो बादरः कालपुद्गलपरावर्त्तः, यदा चैकः कचिज्जीवोऽवसर्पिण्याचसमये मृत:, पुनस्स एव जीवोऽवसर्पिण्याद्य समयस्यानन्तरे द्वितीये समये म्रियते, एवमनन्तरानन्तरसमय भाविमरणैः सर्वानप्युत्सर्पिण्य वसर्पिणीसमयान् क्रमेण स्पृष्टान् करोति, तदा सूक्ष्मः कालपुद्गलपरावर्त्तो भवति । यावता कालेन अनुभागबन्धाध्यवसायस्थानानि सर्वाण्यप्यसङ्ख्ये यलोकाकाशप्रदेशप्रमानि यदैकेन जीवेन म्रियमाणेन क्रमेणोत्क्रमेण च स्पृष्टानि भवन्ति, तावान्कालो बादरस्तथा यावता कालेनैकेन जन्तुना प्रथमद्वितीयतृतीयाद्यनुभागवमधाध्यवसायस्थानेषु मरणानि कुर्वता असख्येयलोकाकाशप्रदेशप्रमाणानि सर्वाण्यप्यनुभागवन्धाध्यवसाय स्थानानि स्पृष्टानि भवन्ति, तावान् कालः सूक्ष्मो भावपुद्गलपरावर्त्तः । अथानुभागबन्धस्थानानीति कः शब्दार्थ : ?, उच्यते - तिष्ठत्यस्मिन् जीव इति स्थानं, अनुभागबन्धस्य स्थानमनुभागबन्धस्थानं, एकेन काषायिकेणाध्यवसायेन गृहीतानां कर्मपुद्गलानां विवक्षितैकसमयबद्ध रस समुदाय परिमाणमित्यर्थः तानि चानुभागबन्धस्थानाम्यसङ्ख्ये य लोकाकाशप्रदेशप्रमाणानि तेषां चानुभागबन्धस्थानानां निष्पादका ये कपायोदयरूपा अध्यवसायास्तेऽप्यनुभागबन्धस्थानानीत्युच्यन्ते कारणे कार्योपचारात्, तेऽपि चानुभागबन्धाध्यवसाया असङ्ख्येयलोकाकाशप्रदेशप्रमाणा इति ॥ ४-५ ॥
४ भावनाऽधिकारे
दौर्लभ्यलं
सम्यक्त्वा
॥ ८२ ॥