________________
पुष्पमाला लघुवृत्तिः
४ भावना ऽधिकारे चातुर्विध्वं पद्गलपरावत्स ।
"सत्तण्हऽन्नयरेणं, इय फुसणे सुहुमदव्वपरियहो। अन्ने चउतणुसु कमे-णमेणं तु विति दुविहं पि ॥३॥"
"लोगपएसुस्सप्पिणि-समया अणुभागबंधठाणा य । पुट्ठा मरणेण जया, कमुक्कमा बायरत्ततया ॥४॥" | "पुट्ठाणंतरमरणेण, पुण जया ते तया भवे सुहुमो। पुग्गलपरियट्टो खित्त-कालभावेहिं इय नेओ॥५॥” इति । लपराव प्रत्यनुपयोगात्र ग्रहणं कृतमिति ॥ २ ॥ सप्तानां-औदारिकादिसप्तकमध्यादन्यतरेणैकेन केनचिद्रूपत्वेन समस्तलोकवर्तिनामखिलानां परमाणूनां स्पर्शने सूक्ष्मद्रव्यपुद्गलपरावतों, भवतीति शेषः । अन्ये पुनरौदारिकादिचतुर्वपि तनुषु यथायोगमन्यतमेनकेन वा क्रमेण-विवक्षितकशरीरस्पृष्टतारूपया परिपाट्या परिणमच्य त्यक्ते, इति-एवं पूर्वोक्तप्रकारेण एष द्विविधोऽपि द्रव्यपुद्गलपरावनों भवतीति ब्रुवते। किमुक्तं भवति ?, अन्वेषामाचार्याणां मतेनौदारिकवैक्रियतैजसकार्मणशरीरचतुष्टयरूपतया निश्शेषद्रव्यग्रहणे-सर्वलोकपुद्गलानां परिभुन्य परिभुज्य परित्यजनेऽयं बादरो दम्यपुद्गलपरावों भवति, तथैव यावता कालेन सर्वेऽपि लोकाकाशभाविनः परमाणव औदारिकाद्यन्यतमैकशरीररूपतया अनुक्रमेण, अर्थाद्विवक्षितैकशरीव्यतिरेकेणान्यशरीरतया ये परिभुज्य परिभुज्य परित्यज्यन्ते ते न गण्यन्ते, किन्तु प्रभूते ऽपि काले गते से विवक्षितैकशरीररूपतया परिणम्यन्ते त एव परमाणवो गण्यन्ते, इत्येतद्रूपेणानुक्रमेण परिभुज्य परिभुज्य निष्ठां नीयन्ते, तावान् काल विशेषः सूक्ष्मद्रव्यपुद्गकपरावर्त्तः । पुद्गलानां-परमाणूनामौदारिकादिसप्तकरूपतया विवक्षितैकशरीरादिरूपतया वा सामस्स्येन परावतः-परिणमनं यावति काले भवति, स तावान कालः पुद्गकपरावर्तः ॥३॥ लोक चतुर्दशरज्ज्वात्मकस्य ये प्रदेशाः, उत्सपिण्या उपलक्षणादवसर्पिण्याश्च ये समयास्तथा असङ्ख्येयकोकाकाशप्रदेशप्रमाणान्यसङ्ख्येयान्यनुभागवन्धस्थानानि, सर्वाग्यप्येकेन जीवेन यदा क्रमेणभानन्तर्येणोत्क्रमेण-परम्परवा च स्पृष्टानि भवन्ति, तदा क्षेत्रकालभावैबांदसे, यदा पुनस्त एव लोकप्रदेशा उत्सपिण्यवसर्पिणीसमयास्तथाऽनुभागबम्धस्थानाम्यनन्तरमरणेन स्पृष्टानि भवेयुस्तदा तैरेव क्षेत्रकालभावैः सूक्ष्मः पुद्गलपरावतॊ भवेदिति शेयः । इदमुक्तं भवति-यावता कालेनैको जीवः क्रमेणोत्क्रमेण वा यत्र तत्र वा नियमाणस्सर्वानपि लोकाकाशप्रदेशान्मरणेन स्पृशति तावान्काल विशेषो बादरः, यावता च कालेनैकः कश्विजीवोऽनन्तरानन्तरप्रदेशमर-.. मात्मकेन क्रमेण सर्वेष्वपि लोकाकाशप्रदेशेषु सतो भवति, तावान् कालविशेषः सूक्ष्मः, क्षेत्रपुद्गलपरावतॊ भवतीति शेषः । यावता कालेनको जीवः
FURSACSCखना
॥८
॥