________________
पुष्पमाला • लघुवृतिः 1120 11
प्रभावित जिनशासनः कृत सर्वाङ्गीणपुण्य कृत्यः प्रान्ते श्रीकेवलिपार्श्व दीक्षां गृहीत्वा कृतकर्म्मक्षयो मोक्षमगात् ।। ॥ इति श्रीविक्रमराजाऽऽख्यानकं समाप्तम् ॥
• आदिशब्दादन्येऽपि सुरसम्पादिताज्ञाः सुलसाद्या द्रष्टव्या इति गाथार्थः || १०३ || अथ सम्यक्त्वस्यैव गुणोत्कर्षमाहअंतोमुहुत्तमित्तं पि, फासियं जेहिं हुज सम्मत्तं । तेसिं अवड्ढपोग्गल - परियहो चैत्र संसारो ॥ १०४ ॥
व्याख्या—अन्तर्मुहूर्त्तमात्रमपि स्पृष्टं- आसादितं यैः सम्यक्त्वं भवेत् तेषां पश्चात् कथमपि तीर्थकराशातनादिमहापातकिनां गोशालकादीनामप्युत्कृष्टतः अपार्द्धपुद्गलपरावर्तमात्र एव संसारः । अपगतमर्द्ध यस्मादसावपार्द्धः स चासौ पुद्गलपरावर्त्तश्वापार्द्धषुद्गलपरावर्त्तः, पुद्गलपरावर्त्तस्यार्द्धमित्यर्थः । तदप्युपलक्षणत्वाद्देशोनमिह ज्ञेयम् । पुद्गलपरावर्त्तस्वरूपं चैवमष्टधाऽऽदुः"* दवे खित्ते काले, भावे चउह दुह बायरो सुहुमो । होह अणंतुस्सप्पिणि- परिमाणो पुग्गल परिअहो ॥ १ ॥
मणवपाण-तणेण परिणमह मुअइ सब्बाणु। एगजिओ भवभमिरो, जत्तियकाले सो धूलो ॥२॥"
* आसामर्थोऽयं द्रव्यपुद्गलपरावतः क्षेत्र पुद्गलपरावर्त्तः कालपुद्गलपरावत भावपुद्गलपरावर्तश्चेति चतुर्धा चतुष्प्रकारो भवति पुद्गलपरावर्त्तः । पुनरप्येकैको द्विधा-बादरः सूक्ष्मश्चानन्तोत्सर्पिण्युपलक्षणादवसरिणीकालप्रमाणो भवति ॥ १ ॥ तत्र भवं भ्रमन्नेको जीवश्चतुस्ततु श्रदारिकर्वक्रियतैजसका मणरूपशरीरचतुष्टयं तथा मनोवाक्श्वासाः इत्येतत्सप्तकत्वेन परिणमयति सुखति च यावता कालेन सर्वाणून् समग्रलोकवर्तिनः सर्वान् पुद्गलान्, स स्थूलो बादरो द्रव्यपुद्गलपरावर्त्तः । किमुक्तं भवति ?, यावता कालेनैकेन जीवेन सर्वेऽपि जगद्वर्त्तिनः परमाणवो यथायोगमौदा रिकशरीरादिसप्तक रूपत्वेन परिभुज्य परिभुज्य परित्यक्तास्तावान् कालविशेषो बाद द्रव्य पुद्गकपरावर्त्तः, आहारकशरीरं चोत्कृष्टतोऽप्येकजीवस्य वारचतुष्टयमेव सम्भवति, ततस्तस्य पुत्र
४ भावना ऽधिकारे
सम्यक्त्वख
गुणोत्कर्षा
॥ ८० ॥