________________
पुष्पमाला लघुवृत्तिः
॥ ७७ ॥
देवनारकाच सम्यग्दृष्टयोsपि मनुष्येष्वेवोत्पद्यन्ते तेषां देवगतिनिषेधादिति मन्तव्यमिति गाथार्थः ॥ १०२ ॥ ताभिधानद्वारेण तस्यैव गुणान्तरमाह
अचलियसम्मत्ताणं, सुरा वि आणं कुणंति भत्तीए । जह अमरदत्तभजा-ए अहव निर्वाविकमाईणं ॥ १०३ ॥ व्याख्या - दृढसम्यक्त्वानां सुरा अपि भक्त्या आज्ञां कुर्वन्ति, यथा अमरदत्तभार्यायाः, अथवा नृपविक्रमराजादीनामित्यक्षरार्थः, भावार्थकथनार्थं त्वमरदत्तभार्याकथानकं तावदुच्यते—
सुराष्ट्रादेशे कनकरत्नपूर्णायां द्वारिकापुर्यां पद्मश्रेष्ठिपुत्रोऽमरदत्तो रूपसौभाग्यसम्पन्नः कुशद्वीपे सुवर्णपुरे वाणिज्यार्थ जलाध्वना बहुविभवो गतः । तत्र विशङ्कश्रेष्ठिपुत्रीं श्रीजिनधर्मपरां रूपादिभिरनुत्तरां विमलयशानाम्नीं दृष्ट्वा ययाचे । पित्रोक्तं ददामि परं 'यः कोऽपि मां धर्म्मवादे जयति, स एव मम वर' इति कृतप्रतिज्ञा साऽस्ति । ततो जाते वादे स मिथ्यामतिस्तस्याः स्याद्वादवादिन्या उत्तरं दातुमक्षमश्चिन्तयति - अहो !! सुनिपुणेयं जिनधर्मे गृहस्थ्यपि, ततोऽहमप्येनमेव शिक्षयित्वैनां निरुत्तरां करोमीति कपटश्रावको भूत्वा जिनधर्ममभ्यस्यन् ज्ञाततच्चः सद्भावेन श्रात्रकोऽभूत् । ततः समन्तभद्रसूरिपार्श्वे गृहीतधर्म्म तं दृष्ट्वा विमलयशया हृष्टया प्रोक्तंभोः ! तवैवं धर्म्मविचारेऽद्याप्यस्तीच्छा !, अत्रान्तरे श्रेष्ठयपि तत्रैवागतः, ततोऽमरदत्तेनोक्तं- 'भद्रे ! शुद्धाकरप्रभवे वज्रे या पुनर्विचा रणा अभिनिविष्टबुद्धिभिः क्रियते, सा तेषां जडत्वमेव साधयति, पूर्वापराविरुद्धे प्रमाणसिद्धे जगत्प्रसिद्धे सर्वज्ञभाषिते धर्मे विप्रतिपन्ना ये विचारणां कुर्वन्ति तेषामसमञ्जसभाषिणां सा दुर्गतिमेव फलं साधयती 'ति श्रुत्वा विमलयशया चिन्तितं परिणतधर्म्माऽयं शुद्धवचनैर्लक्ष्यते, अन्यच्च - मय्यपि स्तोकानुरागः सम्पन्नोऽस्त्यसौ, तद्यदि मामिच्छति, मत्पिताऽपि यदि कथमपि प्रतिपद्यते, तदैतेन परिणीता एनं
४ भावनाऽधिकारे
सम्यक्त्व
स्थैर्य निद
र्शकममर
दत्तभार्यानिदर्शनम्
॥ ७७ ॥