________________
पुष्पमाला
लघुवृत्तिः
॥ ७६ ॥
व्याख्या– विकलानि-असम्पूर्णानीन्द्रियाणि येषां द्वित्रिचतुरिन्द्रियाणां ते तथा, अमनस्का:- सम्मूर्च्छजाः पञ्चेन्द्रियाः, एतेषु तथाविधाध्यवसाय शुद्धयभावान्न सम्यक्त्वप्रतिपत्तिसम्भवः, अतस्तिर्यक्षु एतान् वर्जयित्वा शेषा गर्भजपञ्चेन्द्रियाः प्रतिपद्यमानका अपि भवन्ति । उभयस्यापि - पूर्वप्रतिपन्नप्रतिपद्यमान कलक्षणस्यैकेन्द्रियेषु सम्यक्त्वलब्धेरभावः । यतोऽत्र तथाविधाध्यवसाय शुद्धयभावात् | सम्यक्त्वस्य प्रतिपद्यमानको न कथञ्चिद्भवति । पूर्वप्रतिपन्नं तु कार्मग्रन्थिका द्वीन्द्रियादिवत्पृथिव्यादिषु साखादनसम्यग्दृष्टयुत्पत्तेर्म| न्यन्त एव, सैद्धान्तिकास्तु तस्य तत्रानुत्पत्तेः खल्पत्वेनाविवक्षणादेर्वा कुतश्चित्कारणात्पूर्वप्रतिपन्नस्यात्राभावं मन्यन्त इत्यत्र मतद्वयं तत्त्वं | तु सर्वविदो विदन्तीति गाथार्थः ॥ १०० ॥ अथ 'गुणाथ के तस्ये' ति चतुर्थद्वारमिधित्सुः सम्यक्त्वस्य सर्वगुणाधारत्वलक्षणं गुणमाहजह धन्नाणं पुहई, आहारो नहयलं व ताराणं । तह नीसेसगुणाणं, आहारो होइ सम्मतं ॥ १०१ ॥
व्याख्या—उत्पत्तिवृद्धिस्थित्यपेक्षया यथा सर्वधान्यानां पृथिवी आधारः नभस्तलं वा ताराणां आधारः, तथा निःशेषगुणानां शमसंवेगनिर्वेदादीनां आधारः सम्यक्त्वं भवतीति गाथार्थः ॥ १०१ ॥ अथ तस्यैव सुगतिगमनहेतुत्वमाहसम्मदिट्ठी जीवो, गच्छइ नियमा विमाणवासीसु । जइ न विगयसम्मत्तो, अहव न बद्धाउओ पुव्वि ॥ १०२ ॥
व्याख्या– इह सम्यग्दृष्टिरुत्कृष्टतस्तेनैव भवेन सिद्ध्यति, योऽपि सम्पूर्णकालादिसामय्यभावान्न निर्वाणं गच्छति, सोऽपि जन्तु - नरकतिर्यमनुजभवन पतिव्यन्तरज्योतिष्क गती निरुध्य नियमाद्विमानवासिष्वेव सौधर्मादिदेवेषु गच्छति, यदि मरणसमये सर्वथा विगतसम्यक्त्वोऽतिचारमलिनसम्यक्त्वो वा, अथवा सम्यक्त्वलाभकालात् पूर्वं बद्धायुश्च न भवति, अस्य हि चतसृष्वपि गतिषूत्पत्तेः ।
४ भावनाऽधिकारे
पूर्वप्रतिपनादयः च
तसृषु गतिषु
सम्यक्त्वस्व
॥ ७६ ॥