SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ ४ भावनाअधिकारे ग्रन्थिमेदनिरूपणम् ण्यवसर्पिण्यः पुद्गलपरावतः, तदुक्तम्-"उस्सप्पिणी अणता, पुग्गलपरियट्टओ मुणेयव्यो" इति । करणं-अध्यवसायविशेषः, विशिपुष्पमाला टज्ञानादिगुणमन्तरेण कथमपि स्वयमेव प्रवृत्तं यथाप्रवृत्तं, तच्च तत्करणं च यथाप्रवृत्तकरणं, यथा गिरिनद्या उपलो घञ्चनाघोलनावशतः || लघुवृत्तिः | स्वयमेव वृत्तादिभावमापद्यते, एवं जन्तवोऽपि यथाप्रवृत्तकरणेन स्वयमेव कम क्षपयन्तीति भावः । इति गाथाद्वयार्थः ॥ ९२॥ ॥७३॥ ननु ग्रन्थिरिति कः पदार्थः ? इत्याह8 गंठिं भणंति मुणिणो, घणरागदोसपरिणइसरूवं । जम्मि अभिण्णे जीवा, न लहंति कयाइ सम्मत्तं ॥१३॥ व्याख्या-घना-निविडा या रागद्वेषपरिणतिः. तत्स्वरूपं ग्रन्थि मुनयः प्रतिपादयन्ति, यथा वल्कादिनिष्पन्नः कश्चिन्निविडग्रथिदर्भदो भवत्येवं रागद्वेषपरिणामोऽपि यः सम्यक्त्वप्राप्तिप्रतिबन्धकोऽनन्तकालेनापि जीवैन भिन्नः, स ग्रन्थिरिति भावः। सम्यक्त्वप्राप्तिप्रतिबन्धकत्वमेव तस्याह-यस्मिन्नभिन्ने जीवा न कदाचिल्लभन्ते सम्यक्त्वमिति गाथार्थः ॥ ९३॥ ननु ये केचन जीवा ग्रन्थि यावदागच्छन्ति ते सर्वेऽपि तं भिन्दन्ति ?, नेत्याह| उल्लसियगरुयविरिया, धन्ना लहुकम्मुणो महऽप्पाणो। आसपणकालभवसि-द्धिया यतं केइ भिंदंति ॥९॥ व्याख्या-उल्लसितगुरुवीर्या धन्या लघुकर्माणो महात्माच आसन्नकाले भवा-भाविनी सिद्धियेषां ते आसन्नकालभवसिद्धिकाश्च |तं ग्रन्थि केचिदेव प्रागिनो भिन्दन्ति, न सर्वे, इति गाथार्थः ॥ ९४:॥ व्यतिरेकमाह- .. जे उण अभव्वजीवा, अणंतसो गंठिदेसपत्ता वि । ते अकयगंठिभेया, पुणोवि वढंति कम्माइं ॥ ९५ ॥ CANORA
SR No.600375
Book TitlePushpamala Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri, Buddhisagar
PublisherJindattasuri Bhandagar
Publication Year1961
Total Pages336
LanguageSanskrit
ClassificationManuscript
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy