________________
जैनतस्वसार
GOOeceeeeeeeeeeeeeeeeeeeeer
स्मात्तस्मात्तस्याहारस्य विपाकवशात् , 'स्वयं'-स्वत एव, प्रेरणामंतरेणैवेत्ति भावः 'धात्वादि सम्पाद्य-धात्वादीन् निप्पाच, 'पुष्टिं'पोषणं करोति ॥१७॥
मूलम्-तथाहृति 'रोमभिरादधद्यकः, खलं परित्यज्य रसान् समाश्रयेत् ।
पुनः पुनःप्रोज्झति तन्मलं बलात्, दधद्रजः सात्त्विकतामसान् गुणान् ॥१८॥ सज्ज्ञानविज्ञानकषायकामान, हिताहिताचारविचारविद्याः।
रोगान् समाधीश्च दधान एष-मास्ते कथं सक्रिय एष देहे ॥१९॥ टीका-पुनः किं करोतीत्याह-तथेत्यादि तथेति-समुच्चये, 'यका-यः आत्मा, 'रोमभिः'-देहाद् बहिश्यमानावयवरूपरोमगणैः आकृष्य, 'आहृतिम्'-आहारम् , 'आदधत्'-आदधानः सन् , 'खलं'-रूक्षभागं, 'परित्यज्य'-त्यक्त्वा, 'रसान्'रक्तादीन् , धातून् , 'समाश्रयेत्'-आश्रयेत् गृह्णीयादिति भावः, 'पुनः पुनः'-वारं वारम् , 'बलात्-'बलपूर्वकं, 'तन्मलं'–रसानां मलं, 'प्रोज्झति'-त्यजति, पुनश्च 'रजःसात्विकतामसान्'-राजससात्विकतामसान् गुणान् , 'दधत्'-दधानः सन् , पुनश्च 'सज्ज्ञानं' -सम्यग् ज्ञान, विज्ञानं'-शिल्पशास्त्रविषयिकं ज्ञानं, 'कषायान्'-क्रोधादीन् , 'कामान्'-भोगान् , 'हितम्'-हितकारकम् , 'अहितम्'-अहितकारकम् , 'आचार-सद्व्यवहारः, 'विचार'-परामर्शः, 'विद्या'-ज्ञानम् , एतान् सर्वान् दधत् 'रोगान् , व्याधीन् ,
१. देहबहिश्यमानावयवरूपरोमगणैराकृष्य । २. राजस ।
09026060609969090000000000