________________
%
***
AC
*
%
*
'यथा यथा -येन प्रकारेण, यद्यत्क्रमेणेत्यर्थः, 'सहसा'-साहसपूर्वकम् , 'पृच्छा अक्रियन्त'-प्रश्ना विहिताः, 'तथा'तेन प्रकारेण, तत्क्रमणेत्यर्थः, 'तदुक्तं'-शैवकथनं, 'पुरतो निधाय '-अग्रे संस्थाप्य, 'आहेतेन'-अर्हतग्रणीतागमद्वारा, | आईसिद्धान्तेनेतिभावः, मया 'उत्तरं व्यतारि'-प्रतिवचनम् प्रदत्तम् ॥ ४ ॥
मूलम्-मया त्विदं केवललौकिकोक्ति-प्रसिद्धमाधीयत पृष्टशासनम् ।
पुराणशास्त्राहितबुद्धयस्तु, पुरातनी युक्तिमिहाद्रियन्ताम् ॥५॥ टीका-विदुषां सम्बन्धे स्वस्याऽल्पमतित्वमुपदर्शयितुमाह-मयेत्यादि 'तु' शब्दो विनिश्चये, मया 'इदं '-पूर्वोतम् , 'पृष्टशासनम् '-प्रश्नप्रतिवचनन्, 'केवललौकिकोक्तिप्रसिद्धम् '-केवलं सांसारिककथने प्रख्यातम् , 'आधीयत'धृतम् , विहितमित्यर्थः, अस्ति 'तु' शब्दो भिन्नक्रमद्योतनार्थः, 'पुराण शास्त्राहितबुद्धयः'-प्राचीनशास्त्राभ्यासेन प्राप्तधीप्रकर्षा जनाः, "इह '-अस्मिन् विचारे, मत्कथितविचार इत्यर्थः, 'पुरातनी युक्तिमाद्रियन्ताम् '-प्राचीनां युक्तिमाश्रयन्ताम् , मत्कथितविचारे प्राचीनमपि युक्ति संघटयन्त्वितिभावः ॥५॥
मूलम्-परं विचारेऽत्र न गोचरो मे, प्रायेण मुह्यन्ति मनीषिणोऽपि ।
- अमुं विना केवलिनं न वक्तुं, व्यक्तोऽपि शक्तः सकलश्रुतेक्षी ॥६॥ टीका-उक्तविचारस्य महच्चमाह-परमित्यादिना 'परम्'-किन्तु, 'अत्र विचारे '-पूर्वोक्ते विमर्श, 'मे'-मम, का गोचरः'-विषयः, नास्ति, अत्र हेतुमाह-प्रायेणेत्यादिना यतः 'प्रायेण '-बहुधा, 'अत्र'-विचारे, 'मनीषिणोऽपि '
ARKARISRO