SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ तत्वसार बकायाम् विशतितमोऽधिकार *35*35*3 रमनिमन्तुं ऐदंयुगीनानां जनानां बुद्धि तं न क्षमाऽस्तीतिभावः, अत:'-पनप्रेरणपारवश्यात् , अन्यनोदनरूपपारतन्न्यात, हेती पश्चमी, 'अजानतापि'-ज्ञानरहितेनापि, मया ' इति '-एतां, 'धृष्टतां विधृत्य'-प्रागल्भ्यं धृत्वा, 'परेण पृष्टाःमिनमतानुयायिना पृष्टां नीताः, 'एते'-पूर्वोक्ता ग्रन्थोक्ता इत्यर्थः, 'कियन्तः'-स्वल्पाः प्रश्नाः, 'पठितोत्तरोचराः'| प्रभपतिवचनक्रमेय निदर्शिनः सन्तः, 'व्यतायन्त '-विस्तारं नीताः ॥ १-२॥ मूलम्-शैवेन केनापि च जीवकर्मणी, आश्रित्य पृच्छाः प्रसभादिमाः कृताः। मा भूजिनाधीशमतावहेले-त्यवेत्य मक्षुत्तरितं मयैवम् ॥ ३॥ टीका-कथम् किमर्थं च प्रश्नप्रतिवचनक्रमो जात इत्याह-शैवेनेत्यादिना 'च' शब्दश्चरणपूत्तौं, 'केनापि'केचित् , 'शैवेन'-शिवमतानुयायिना, शिवोपासकेन जनेनेत्यर्थः, 'जीवकर्मणी आश्रित्य '-जीवकर्मणोरवलम्बनम कुरवा, जीवकर्मणोः सम्बन्धे इतिभावः, 'प्रसभात'-हठात् , ' इमाः पृच्छा: कृताः'-एते प्रश्ना विहिताः, तदा, 'जिनाधीशमतावहेला'-जिनेश्वरमतस्याऽनादरः, 'मा भूत्'-न भवेत् , ' इत्यवेत्य '-एतद्विचार्य, 'मयैवम् '-मया उक्तरीत्या, | 'महा'-शीघ्रमेव, ' उत्तरितम् '-प्रत्युक्तम् , उत्तरं प्रदातमित्यर्थः ॥ ३॥ मूलम्-यथा यथा तेन हृदुत्थतर्क-माश्रित्य पृच्छाः साहसाऽक्रियन्त । तथा तदुक्तं पुरतो निधाय, मया व्यतार्युत्तारमार्हतेन ॥ ४ ॥ टीका-केन क्रमेणोत्तरितमित्याह-यथेत्यादिना 'हृदुत्थतर्कमाश्रित्य''-हृदयोत्पन्नतर्कमवलम्ब्य, 'तेन'-शैवेन, GHASA% 5 *
SR No.600374
Book TitleJain Tattva Saragranth Satik
Original Sutra AuthorN/A
AuthorSurchandra Gani, Manvijay Gani
PublisherVardhaman Satya Niti Harshsuri Jain Granthmala
Publication Year1941
Total Pages328
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy