________________
जैन
तस्वसार
टीकायाम्
॥ १३२ ॥
टीका - उदाहरणान्तरमाह - संसाध्येत्यादिना ' अत्र ' - अस्मिन् संसारे, ' संसाध्यमानः ' - औषधादिमि: सिद्धिं नीयमानः, रसोऽपि ' काले ' - समये, 'सिद्ध:'- सिद्धिंगतः सन्, 'फलायाऽस्ति'- फलार्थ भवति, ' न साध्यमान इति ' - साधनकाले फलाय न भवतीत्यर्थः, उदाहरणान्तरमाह - तथेत्यादिना ' तथे ' ति समुच्चये, 'अन्यदेशव्यवहारकर्म ' - देशव्यवहारसम्बन्ध्यन्यदपि कर्म, ' तत्कालपूर्ती ' -स्वकालस्य समाप्तौ ' प्रकामं ' - यथेष्टं, ' फलति ' - फलदायि भवति ॥ ५ ॥ मूलम् - तथैव पूजादिकमत्रपुण्यं, काले स्व एवाऽस्ति भवान्तराख्ये । फलप्रदायीति ततो न दक्षै-रौत्सुक्यमेष्यं फलदे पदार्थे ॥ ६ ॥
टीका — उदाहरणान्तरमभिधातुकाम आह- तथैवेत्यादि ' तथैवे ' ति समुच्चये, ' अत्र ' - अस्मिन् संसारे, ' पूजादिकम् ' - अर्चाप्रभृतिकम्, 'पुण्यं ' - धर्मसम्बन्धिकार्यम्, 'भवान्तराख्ये' - अन्यभवनामके, ' स्वे काले एव ' - निजसमय एव, फलप्रदाय्यस्ति ' - फलदायकं सञ्जायते, 'इति' शब्दो वाक्यपरिसमाप्तौ, 'ततः ' - तस्मात् कारणात्, 'फलदे पदार्थ 'फलदायिनि वस्तुनि, 'दक्षैः ' - चतुरैः पुरुषैः, 'औत्सुक्यम् एष्यम् ' -उत्सुकत्वं नाभिलषणीयम्, फलप्राप्तये शीघ्रता न कर्त्तव्येत्यर्थः ॥ ६ ॥
4
मूलम् - पुनर्बुधाऽवंस्य हृदि स्वकीये, पूर्वे प्रणीता य इमे पदार्थाः ।
ते चैहिका ऐहिकदायिनस्तत्, फलन्त्यथाऽचैव यतोऽग्रतो न ॥ ७ ॥ १. पुनरास्तिकः प्राह । २. जानीहि ।
एकोनविंशोऽधिकारः
॥ १३२ ॥