SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ धर्मपरीक्षा ॥ ८७ ॥ विशेषाद् व्रतांशस्यैव ग्रहणं न तुश्रद्धानांशस्य इति परस्य मतम्, तदुन्मत्तप्रलपितम् अखण्ड सामाचारीपालनबलेनैव तेषां ग्रैवेयकोत्पादाभिधानादिति ॥ २१ ॥ दोषान्तरमप्याह " तह णिवाण देखा-रागभावो अवट्टिओ हुज्जा | तो परिभासा जुत्ता, वित्तिं परिगिज्झ वुत्तुं जे ॥ २२ ॥ [ तथा निवानां देशाराधक भावोऽवस्थितो भवेत् । ततः परिभाषा युक्ता वृत्तिं परिगृह्य वक्तुं ॥ २२ ॥ ] तह ति । तथेति दोषान्तरसमुच्चये । एकान्तद्रव्य क्रिययैवाराधकत्वाभ्युपगमे, निहृवानामभिनिवेशादिना परित्यक्तरत्नत्रयाणां सर्वविराधकत्व कालेऽपि देशाराधकत्वभावो भवेद् । यथा प्रतिज्ञातद्रव्य क्रियया अपरित्यक्तत्वादिष्टापत्तौ को दोपः ? इति चेद्, व्यवहारविरोध एव, न हि सर्वविराधको देशाराधकश्च कोऽपि व्यवहिते || अथ द्रव्यक्रियामाश्रित्यैवाराधकत्व - विराधकत्वव्यवस्थाकरणात्सर्वविराधकत्वं निवानां नेष्यते एव, प्रतिपन्नचारित्र विषयकद्रव्याज्ञा भङ्गाभावाद्देशाराधकत्वम् उत्सूत्र भाषणेन सम्यक्त्वविषयकप्रतिपन्नजिनाज्ञापरित्यागाद्देश विराधकत्वं चाविरुद्धमेव, अंशभेदादेकत्रैव सप्रतिपक्षोभयधर्मसमावेशा विरोधादिति चेद् । न, एवं सत्यसंयतभव्यद्रव्यदेवानां निहवानामभव्यादीनां चोपपत्तिमधिकृत्य साम्याभावप्रसङ्गात् । अथ नास्त्येव तेषामुपपातसाम्यम्, ग्रैवेयकेष्वपि निह्नवस्य देवदुर्गततयोत्पादाद् । देवदुर्गतत्वं च न केवलं देव किल्बिपिकत्वादिनैत्र, तत्र तेषामभावाद्, किन्तु संमोहत्वेन । स च देवदुर्गतस्ततश्च्युतोऽनन्तकालं संसारे परिभ्रमति । यदागमः-- "कंदष्पदेव किब्बिस - अभिओगा आसुरी य संमोहा । ता देवदुग्गईओ, मरणमि विराहिआ हुंति ||१|| ति । [ कन्दर्पदेव - किल्विषाभियोगा आसुरी च संमोहाः । ता देवदुर्गतयो मरणे विराधिता भवन्ति ||] आतुरप्रत्यानप्रकीर्णके व्याख्यादेशो यथा - " संमोह 'ति संमोहयन्ति - उन्मार्गदेशनादिना मोक्षमार्गाद् भ्रंशयन्ति ये ते सटिप्पणा ||खोपज्ञ वृतिः ॥ गाथा - २२ ॥८७॥
SR No.600371
Book TitleDharm Pariksha
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1942
Total Pages304
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy