SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ धर्मपरीक्षा ॥८५॥ द्रव्यलिङ्गधारिणो गृह्यन्ते । ते झखिलसामाचारी केवलक्रियाप्रभावत एवोपरितन (रिम) ग्रैवेय के पूत्पद्यन्त इति असंयताश्चते सत्यप्यनुष्ठाने चारित्रपरिणामशून्यत्वादिति ” । इत्थं चैतदङ्गीकर्तव्यम् - जिनोक्तमनुष्ठानमन्तरेणाराधकत्वाभावाद् मिथ्यादृष्टित्वमन्तरेण बालतपस्वित्वाभावाच्चेति ।। १९ ।। एतन्मतं दूषयति तं मिच्छा जं फलओ, मुक्खं आराहगत्तमिह पगयं ॥ तं च ण एगंतेणं, किरियाए भावसुन्ना ॥ २० ॥ [ तन्मिथ्या यत्फलतो मुख्यमाराधकत्वमिह प्रकृतम् । तच्च नैकान्तेन क्रियया भावशून्यया ॥ २० ॥ ] तं मिच्छति । तत्सम्प्रदाय बाह्योक्तं मतं, मिथ्या, यद् यस्मात् इह प्रकृतचतुर्भङ्गीप्रतिपादकभगवतीसूत्रे, मुख्यं मोक्षानुकूलम्, आराधकत्वं प्रकृतम्, ज्ञान - क्रियाऽन्यतरमोक्षकारणवादिनामन्य तीर्थिकानां मतनिरासार्थं तत्समुच्चयवाद विशदीकरणायै तत्सूत्रप्रवृत्तेः । प्रत्येकं ज्ञानक्रिययोः स्वल्पसामर्थ्यस्य समुदितयोश्च तयोः सम्पूर्ण सामर्थ्यस्य प्रदर्शनार्थ देशाराधकादिचतुर्भङ्गयुपन्यासस्य सार्थक्यात्, प्रत्येकं स्वल्पसामर्थ्यस्याभावे च सिकता समुदायात्तैलस्येव तत्समुदायादपि मोक्षस्यानुपपत्तेः ।। तदिदमाहाक्षेपसमाधानपूर्व भाष्यकारः“पत्तेयमभावाओ, णिवाणं समुदियासु ण जुत्तं ॥ नाणकिरियासु वोत्तु ं, सिकता समुदाये तेल्लं व ॥ १ ॥ वीसुंण सबह च्चिय, सिकता तेल्लं व साहणाभावो || देसोवगारिया जा, सा समवायमि संपुण्णा ||२||" [ प्रत्येकमभावाद् निर्वाणं समुदितयोर्न युक्तम् । ज्ञानक्रिययोर्वक्तुं ||सिकतीसमुदाये तैल इव ॥ विष्वग् न सर्वथैव सिकतातैल इव साधनाभावः । देशोपकारिता या सा समवाये संपूर्णा || ] अग्रिमगाथार्थो यथा न च विश्वक् पृथक्, सर्वथैव सिकताकणानां तैल इव साध्ये ज्ञानक्रिययोर्मोक्षिं प्रति साधनत्वाभावः, किन्तु या च यावती च तयोर्मोक्षं प्रति देशोपकारिता प्रत्येकावस्थायामप्यस्ति सा च समुदाये संपूर्णा भवत्येतावान् विशेषः, अतः सटिप्पणा ॥ स्वोपज्ञ वृचिः ॥ गाथा - २० ॥ ८५ ॥
SR No.600371
Book TitleDharm Pariksha
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1942
Total Pages304
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy