SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ Cak धर्मपरीक्षा ॥८२॥ ++ सटिप्पणा ॥ खोषज्ञ वृतिः ॥ गाथा-१८ ॥८२॥ तस्मादपि पूर्वप्रतिपन्नोऽसंख्येयगुणनिर्जरकः इति सम्यक्त्वोत्पत्तिाख्यातेति"। यदि चैतद्वचनबलादेव चारित्रादाविव सम्यक्त्वे|ऽप्यभिमुखप्रतिपद्यमान-प्रतिपन्नत्रयस्यैव गुणश्रेणीसद्भावात् सम्यक्त्वानमिमुखमिथ्यादृष्टेन मार्गानुसारित्वमित्याग्रहस्तदासंगम नयसारादेरपि मार्गानुसारित्वं न स्याद् । न हि भवान्तरव्यवधानेऽपि गुणश्रेण्यनुकूलमाभिमुख्यं सम्भवतीति सम्यक्त्वादिनियतP-गुणश्रेणी विनाऽपि मिथ्यादृशामप्यल्पमोहमलानां संसारप्रतनुताकारिणी दयादानादिगुणपरिणतिर्मार्गानुसारितानिबन्धनं भवतीति प्रतिपत्तव्यम् । अत एव-"भवाभिनन्दिदोषाणां, प्रतिपक्षगुणैर्युतः । वर्द्धमानगुणप्रायो, ह्यपुनर्बन्धको मतः ॥१७८॥" इति योगबि. न्दावुक्तम् । अपुनर्बन्धकश्च प्रथमगुणस्थानावस्थाविशेष इति तत्र सर्वथा गुणप्रतिक्षेपवचनं निर्गुणानामेवेति मन्तव्यम् ॥ १७ ॥ तदेवं मार्गानुसारिभावस्य कालमानमुक्तम् , अथानेन सदाचारक्रियारूपेण ज्ञानदर्शनयोगायोगाभ्यां यथा चतुर्भङ्गी निष्पद्यते तथाऽऽह६ एअम्मि नाणदंसण-जोगाजोगेहिं देससव्वकओ ॥ चउभंगो आराहग-विराहगत्तेसु सुअसिद्धो ॥ १८ ॥1 - एतस्मिन् ज्ञानदर्शनयोगायोगाभ्यां देशसर्वकृतः । चतुर्भङ्ग आराधकविराधकत्वयोः श्रुतसिद्धः ॥ १८ ] एअम्मित्ति । एतस्मिन्-मार्गानुसारिभावे सदाचारक्रियारूपे ज्ञानदर्शनयोगायोगाभ्यामाराधकत्वविराधकत्वयो. देशसर्वकृतश्चतुर्भङ्गसमाहारः श्रुतसिद्धः। तथाहि-१ मार्गानुसारिक्रियावान ज्ञानदर्शनहीनश्च देशाराधक इति प्रथमो भङ्गः। २ ज्ञानदर्शनसम्पन्नः क्रियाहीनश्च देशविराधक इति द्वितीयः। ३ ज्ञानदर्शनसम्पन्नः क्रियासम्पन्नश्च सर्वाराधक इति तृतीयः । ४ ज्ञानदर्शनासम्पन्नः क्रियाहीनश्च सर्वविराधक इति चतुर्थः॥ तथा च भगवतीसूत्रम्-(श०८उ०१०)"एवं खलु मए चत्वारि पुरिसजाया पण्णत्ता । तंजहा-१ सीलसंपन्ने णामं एगे णो सुअसंपन्ने । २ सुप्रसंपन्ने णाम एगेणो सीलसंपन्ने । ३ एगे सीलसंपन्ने वि सुअसंपन्ने वि। SAAE5
SR No.600371
Book TitleDharm Pariksha
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1942
Total Pages304
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy