________________
धर्म परीक्षा ॥८१॥
मधिकृत्यावसेयम् ; सर्वस्यापुनर्बन्धकस्य प्रागुक्तयुक्त्यैतावत्कालमानानियमाद् भावशुद्ध जैनक्रियाया एव एतावत्कालनियतत्वाद् | अत एवास्मिन्नर्थे "कालमणंतं च सुए, अद्धापरिअडओ उ देणो । आसायणबहुलाणं, उक्कोसं अंतरं होई ||" (आव०८५३) [ कालमनन्तं च श्रुते अर्धपरिवर्तश्च देशोनः । आशातना बहुलानामुत्कृष्टमन्तरं भवति ।। ] इति संमतितयोद्भावितं वृत्तिकृता । मोक्षार्थितया क्रियमाणा हि विधिशुद्धा जैनक्रिया उत्कर्षत एतावत्कालव्यवधानेन मोक्षं प्रापयतीति विषय विशेष एषः । भवति च भावाविशेषेऽपि विषयवि| शेषात्फलविशेषः, सामान्यसाधु - भगवद्दानादौ तद्दर्शनादिति श्रद्धेयम् । न चेदेवं तदा स्वतन्त्रान्यतन्त्रसिद्ध क्रियाकार्य पुनर्बन्धकभेदो न | स्यादिति भावनीयं सुधीभिः । यदपि "बीजाधानमपि ह्यपुनर्बन्धकस्य, न चास्यापि पुद्गलपरावर्तः संसार इति" भगवतां सर्वसत्यनाथत्वे " अन्यतरस्माद् भगवतो बीजाधानादिसिद्धेरल्पेनैव कालेन सर्वभव्यमुक्तिः स्यादित्यत्र हेतुतयोक्तं " तदपि भगवत्प्रदेय विचित्रबीजापेक्षया । अत एव पूर्वसेवादेः पृथग्गणनया बीजाधाने पुद्गलपरावर्ताभ्यन्तरसंसार भणनोपपत्तिः, अन्यथाल्पतरकालाक्षेपकतया न चास्या - प्यपार्द्धपुद्गल परावर्ताधिकः संसार इत्येवोपन्यसनीयं स्यादिति सूक्ष्मधिया विभावनीयम् । ये तु वदन्ति - " मिध्यादृष्टीनां मार्गानुसा रिवाभ्युपगमे तेषां गुणवश्वावश्यंभावाद् मिथ्यात्वेऽपि गुणश्रेण्यभ्युपगमप्रसङ्गः " न चैतदिष्टम्, सम्यक्त्वप्रतिपत्तिमारभ्यैव कर्मग्रम्यादौ गुणश्रेण्यभिधानादिति तेषामृजुबुद्धीनां हरिभद्राचार्योपदर्शिताऽन्वर्थगुणस्थानपदप्रवृत्तिरेव मिध्यात्वेऽपि गुणसद्भावसाक्षिणी गुणश्रेणी च धर्मपृच्छादौ मिथ्यादृशामपि सम्यक्त्वोत्पत्याद्युपलक्षितैव द्रष्टव्या । यदाहाऽऽचारवृत्तिकृद् (अ०४) 'इह मिथ्यादृष्टयो | देशोन कोटी कोटिकर्मस्थितिकाश्च ग्रन्थिकसन्च्त्वास्ते कर्मनिर्जरामाश्रित्य तुल्याः, धर्मप्रच्छनोत्पन्नसंज्ञास्तेभ्यो ऽसंख्येय गुणनिर्जरकाः, ततोऽपि पिपृच्छिषुः सन्साधुसमीपं जिगमिषुः तस्मादपि क्रियाऽविष्टः पृच्छन्, ततोऽपि धर्म प्रतिपित्सुः, तस्मादपि क्रियाविष्टः प्रतिपद्यमानः,
सटिप्पणा ॥ स्वोपज्ञ दृचिः ॥ गाथा - १७ ॥ ८१ ॥