________________
धर्मपरीक्षा ॥७९॥
62-4-
सटिप्पणा ॥खोपज्ञ वृत्तिः ॥ गाथा-१७ ॥७९॥
4
-
गोयमा! जहन्नेणं अंतोमुहत्त, उक्कोसेणं सागरोवमसतपुहुत्तं सातिरेगं ।" (संज्ञिनां पृच्छा-गौतम! जघन्येनान्तर्मुहर्तम् , उत्कर्षेण सागरो पमशतपृथक्त्वं सातिरेकम् ।) इत्यागमवचनात्संज्ञिकालस्योत्कर्षतः सातिरेकसागरोपमशतपृथक्त्वमानत्वाद, अपुनर्बन्धकपदस्थापुनर्बन्धकत्वेनोत्कृष्टकर्मस्थितिक्षपणार्थपर्यालोचनायामप्येतदधिकसंसारावश्यकत्वाद् , बीजादिप्राप्तपूर्विणोप्यकपुद्गलपरावर्तनियतानन्तोत्सर्पिण्यवसर्पिणीरूपकालमाननिर्देशात् । न च पञ्चमारके ज्ञानपञ्चकसद्भावाभिधानवद् बीजादिप्राप्तौ चरमपुद्गलपरावर्तकालमानाभिधानेऽपि नोत्कर्षतस्तावदन्तरं तस्य लभ्यते इति वाच्यम्, बीजादिप्राप्तौ चरमावर्तमान एव संसार इति परिपाट्या व्यापककालस्यैव लाभादधिकरणकालमानाभिप्रायेणेत्थमभिधानासंभवाद् , अन्यथा सम्यक्त्वेऽप्येतावान् संसार इति वचनस्थाप्यनवद्यत्वप्रसङ्गात् । किं च-"अचरिमपरिअडेसु, कालो भवबालकालमो भणिओ । चरिमो अ(उ) धम्मजुवण-कालो तह चित्तभेओति ॥१९॥ ता बीजपुवकालो, ओ भवबालकाल एवेह । इयरो उ धम्मजुबण-कालो विह(हि)लिंगगम्मुत्ति॥१६॥ (अचरमपरावर्तेषु कालो भवबालकालो भणितः । चरमश्च धर्मयौवनकालस्तथा चित्रभेद इति ॥१९॥ तस्माद् बीजपूर्वकालो ज्ञेयो भवबालकाल एवेह । इतरस्तु धर्मयौवनकालोऽपीह लिङ्गगम्य | इति।।) इत्येतच्चतुर्थपञ्चमविशिकागाथाद्वयार्थविचारणया बीजकालस्य चरमावर्तमानत्वमेव सिध्यति॥अपि च-"नवनीतादिकल्पस्त
तद्भावेऽत्र निवन्धनम् । पुद्गलानां परावर्त-चरमो न्यायसङ्गतः (तम्)" ॥९६॥ इति योगबिन्दुवचनाचरमावर्तस्य घृतादिप| रिणामस्थानीये योगे म्रक्षणादिस्थानीयत्वसिद्धौ सत्यन्यकारणसाम्राज्येऽपापुद्गलपरावर्तमध्ये सम्यक्त्वादिगुणानामिव चरमावर्तमध्ये बीजोचितगुणानामप्युत्पचिः कदाप्यविरुद्धैव, कालप्रतिबन्धाभावादिति व्यक्तमेव प्रतीयते । अत एव हि भोगाद्यर्थ यमनियमाराधनरूपां कापिलादिभिरभ्युपगतां पूर्वसेवाम्"-अत एवेह निर्दिष्टा, पूर्वसेवाऽपि या परैः। सासन्नान्यगता मन्ये, भवाभिष्वङ्गभावतः ॥९॥"
3
CALCOHICH
G
C