SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ धर्मपरीक्षा ॥७७॥ ति ॥ ९८|| पंचा० ३ - [पापं न तीव्र भावात्करोति, न बहु मन्यते भवं घोरम् | उचितस्थितिं च सेवते सर्वत्रापि अपुनर्बन्धकः || १ || ] एतवृत्तिर्यथा - पापमशुद्धं कर्म, तत्कारणत्वाद् हिंसाद्यपि पापं तद्, न नैव, तीव्रभावाद् गाढसंक्लिष्टपरिणामात् करोति विधत्ते, अत्यन्तोत्कट मिथ्यात्वादिक्षयोपशमेन लब्धात्मनैर्मल्य विशेषत्वाद् । तीव्रेति विशेषणादापन्नमतीवभावात्करोत्यपि, तथाविधकर्मदोषात् । तथा न बहु मन्यते न बहुमानविषयीकरोति । भवं संसारं, 'घोरं रौद्रम्, तस्य घोरत्वावगमात् । तथा उचितस्थितिम् - अनुरूपप्रतिपत्तिम्, चशब्दः समुच्चये, सेवते - भजते कर्मलाघवात्, सर्वत्रापि आस्तामेकत्र देशकालावस्थापेक्षया समस्तेष्वपि देवाऽतिथिमाता- पितृप्रभृतिषु, मार्गानुसारिताऽभिमुखत्वेन मयूर शिशु दृष्टान्तात्, अपुनर्बन्धक उक्तनिर्वचनो जीवः, इत्येवंविधक्रियालिङ्गो भवतीति गाथार्थ इति । न चापुनर्बन्धकस्य क्वचिन्मार्गानुसारितायाः क्वचिच्च तदभिमुखत्वस्य दर्शनेन भ्रमकलुषितं चेतो विधेयम्, द्रव्यभवा योगाभिप्रायेणोभयाभिधानाविरोधात् । एतेन " मार्गानुसारित्वात्" इत्यत्र धर्मबिन्दुप्रकरणे अ०६०२२ मार्गस्य सम्यग्ज्ञानादेर्मुक्तिपथस्यानुवर्तनादिति व्याख्यानात् || वन्दारुवृत्तावपि 'मग्गाणुसारिअ'त्ति अमग्रहपरित्यागेनैव तत्त्वप्रतिपत्तिर्मार्गानुसारितेत्येवंव्याख्यानाद् मिथ्यादृष्टेरकरणनियमादिकारिणोऽपि मार्गानुसारित्वमित्यपास्तम् || पराभिमतस्य सम्यक्त्वाभिमुखस्येवापुनर्बन्ध कादेः सर्वस्यापि धर्माधिकारिणो योग्यतया तत्त्रप्रतिपत्तेर्मार्गानुसारिताया अप्रतिघातात्, मुख्यतत्वप्रतिपत्तेश्व मेघकुमारजीव हस्त्यादावपि वक्तुमशक्यत्वात् । तस्मात्संगमनय सारादिवदतिसंनिहितसम्यक्त्व प्राप्तीनामेव मार्गानुसारित्वमिति मुग्धप्रतारणमात्रम्, अपुनर्बन्धकादिलक्षणवतामेव तथाभावाद्, अन्यथा तादृशसंनिहितत्वानिश्चयेऽपुनर्बन्ध काद्युद्देशेनादिधार्मिकाचारानुपदेशोऽप्युच्छिद्येतेति सकलजैनप्रक्रियाविलोपपत्तिः । किं च- बीजादीनां चरमपुद्गलपरावर्तभावित्वस्य तत्प्राप्तावु कर्पत एकपुद्गल परावर्तकालमानस्य तेषां सान्तरे सटिप्पणा ॥ स्वोपज्ञ वृत्तिः ॥ गाथा - १७ ॥ ७७ ॥
SR No.600371
Book TitleDharm Pariksha
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1942
Total Pages304
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy