SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ धर्मपरीक्षा ०६॥ C सटिप्पणा ॥स्वोपड़ वृत्तिः ॥ गाथा-१७ ॥७६॥ ४ ACADAICCCORE चेष्टापत्तिः, अपुनर्बन्धकादीनामुत्कटमिथ्यात्वाभावात्पूर्वसेवायामपि च तेषामेवाधिकृतत्वात् । तदुक्तम्-"अस्यैषा मुख्यरूपा स्यात्, पूर्वसेवा यथोदिता । कल्याणाशययोगेन, शेषस्याप्युपचारतः।।१७९॥” इति । न चापुनर्बन्धकादेरपि न सम्यगनुष्ठानमिति शङ्कनीयम्, | उपदेशपदे"सम्माणुष्ठाणं चिय, ता सबमिणंति तत्तओ णेयं । ण य अपुणबंधगाई, मुत्तुं एवं इहं होइ॥१॥" [सम्यगनुष्ठानमेव तस्मा सर्वमिदं तत्त्वतो ज्ञेयम् । न चापुनर्बन्धकादि मुक्त्वा एतदिह भवति ॥] सम्यगनुष्ठानमेवाज्ञानुकूलाचरणमेव, तत्-तस्मात्, सर्व | त्रिप्रकारमपि, इदमनुष्ठानं, तत्त्वतः-पारमार्थिकव्यवहारनयदृष्ट्या, ज्ञेयम् । अत्र हेतुमाह-न च नैव, यतोऽपुनर्बन्धक-मार्गाभिमुखमार्गपतितान् मुक्त्वा एतदनुष्ठानमिहैतेषु जीवेषु भवति'अपुनर्बन्धकादयश्चसम्यगनुष्ठानवन्त एवं'-इति उपदेशपदसूत्रवृत्तिवचनाद् अपुनर्बन्धकादेः सम्यगनुष्ठाननियमप्रतिपादनात त्रिप्रकारं धनुष्ठानं सतताभ्यास-विषयाभ्यास-भावाभ्यासभेदात्।।तत्र नित्यमेवोपादेयतया लोकोत्तरगुणावाप्तियोग्यतापादकमातापितविनयादिवृत्तिः सतताभ्यासः। विषयेऽहल्लक्षणे मोक्षमार्गस्वामिनि वा विनयादिवृत्तिः स विषयोभ्यासः । दूरं भवादुद्विग्नस्य सम्यग्दर्शनादीनां भावानामभ्यासश्च भावाभ्यास इति३ । तच्च निश्चयतो मोक्षानुकूलभावप्रतिबद्धत्वाद् विषयगतमेवेत्यपुनर्बन्धकादिः सम्यगनुष्ठानवानेवेति योगमार्गोपनिषद्विदः, येन चात्यन्तं सम्यक्त्वाभिमुख एव मिथ्यादृष्टिर्मार्गानुसारी गृह्यते, तेनादिधार्मिकप्रतिक्षेपाद् अपुनर्बन्धकादयस्त्रयो धर्माधिकारिण इति मूलप्रवन्ध एव न ज्ञातः, सम्यक्त्वाभिमुखस्यैवापुनर्बन्धकस्य पृथग्गणने चारित्राभिमुखादीनामपि पृथग्गणनापच्या विभागव्याघाताद । तस्माद् यथा चारित्राद्वयवहितस्यापि सम्यग्दृशः शमसंवेगादिना सम्यग्दृष्टित्वं निश्चीयते, तथा सम्यक्त्वाद् व्यवहितस्यापुनर्बन्धकादेरपि तल्लक्षणैस्तद्भावो निश्चयः । तल्लक्षणप्रतिपादिका चेयं पश्चाशकगाथा-"पावंण निवभावा,कुणइ ण बहु मन्नइ भवं घोरं । उचियढिइं च सेवइ, सवत्थ विं अपुणवंधो॥१॥" LCAREOGAOCALC
SR No.600371
Book TitleDharm Pariksha
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1942
Total Pages304
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy