SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ धर्मपरीक्षा ॥७ ॥ A RATECORRECTION वबहवः, अमी आवर्ता, व्यतिक्रान्ता अनादौ संसारे व्यतीताः, तत्ततः, एकोऽपश्चिमः, अत्रन किंचन न किंचिद्भयस्थानमेष इत्यर्थः" इति योगबिन्दुसूत्रवृत्तिवचनाचरमावर्तिन आसनसिद्धिकत्वस्यापि स्वल्पकालप्राप्तव्यसिद्ध्याक्षेपकत्वापत्तेः, आपेक्षिकास सटिप्पणा ॥ खोपक्ष बतया समाधानं चोभयत्र सुघटमिति । अथैकमविकाधुचितयोग्यतानियतत्वाद् द्रव्याज्ञायाः सम्यक्त्वप्राप्त्यपेक्षया तदपिकव्यवधाने ब्रूचिः ॥ मिथ्यादृशो न मार्गानुसारितेति निश्चीयते इति चेद् । न, असति प्रतिबन्धे परिपाके वाऽपुनर्बन्धकादेर्मार्गानुसारिणोभा है गाथा-१७ वाज्ञाऽव्यवधानेऽपि सति प्रतिबन्धादौ तद्वयवधानस्यापि सम्भवात् तत्कालेऽपि भावाज्ञाबहुमानाप्रतिघातात, उचितप्रवृत्तिसारतया ॥७४|| द्रव्याज्ञाया अविरोधाद् , अन्यथा चारित्रलक्षणाद् भावस्तवादेकभविकाद्यधिकव्यवधाने द्रव्यस्तवस्याप्यसम्भवप्रसङ्गाद् , भाव|स्तव हेतुत्वेनैव द्रव्यस्तवत्वप्रतिपादनात् । तदुक्तं पञ्चाशके-ता भावत्थयहेऊ, जो सो दबत्थओ इहं इट्ठो॥ जो उण णेवंभूओ, I स अप्पहाणो परं होई ॥१॥” (तस्माद्भावस्तवहेतुर्यः, स द्रव्यस्तव इहेष्टः । यः पुनरनेवम्भूतः स अप्रधानः परं भवति ॥) इति । यदि च भावलेशयोगाद्वयवहितस्यापि द्रव्यस्तवत्वमविरुद्धं तदा तत एव तादृशस्य मार्गानुसारिणो द्रव्याज्ञाप्यविरुद्धैव । यथाहिनिर्निदानं सूत्रविधिलक्षणेन भावस्तवानुरागलक्षणेन वा प्रकारेण जिनभवनाधुचितानुष्ठानस्य द्रव्यस्तवत्वमव्याहतम्, एकान्तेन भावशून्यस्यैव विपरीतत्वात् । तथा अपुनर्बन्धकस्यापि भावाज्ञानुरागभावलेशयुक्तस्य व्यवधानेऽपि द्रव्याज्ञाया न विरोध इति । अत एव भवामिष्वङ्गानाभोगासङ्गतत्वात् अन्यावर्तापेक्षया विलक्षणमेव चरमावर्ते गुरुदेवादिपूजनं व्यवस्थितम् ।। तदुक्तं योगबिन्दौ । "एतद्युक्तमनुष्ठान-मन्यावर्तेषु तद् ध्रुवम् ।। चरमे त्वन्यथा ज्ञेयं, सहजाल्पमलत्वतः॥१५॥ एकमेव ह्यनुष्ठानं, कर्तृभेदेन मिद्यते ॥ सरुजेतरभेदेन, भोजनादिगतं यथा ॥१५३॥ इत्थं चैतद् यतः प्रोक्तं, सामान्येनैव पञ्चधा ॥ विषादिकमनुष्ठानं, विचारेऽत्रैव योगिमिः CCOCCASCALE
SR No.600371
Book TitleDharm Pariksha
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1942
Total Pages304
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy