SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ धर्म परीक्षा ॥७३॥ त्राविशेषाद् एवं वदतो भ्रान्तिमूलं तावच्चरमयथाप्रवृत्तकरणवि भागभाजामे वा पुनर्बन्धकादीनामधिकारित्वभणनम्, तादृशानां तेषां सम्यस्वसंनिहितत्वाद् । अत एव - "भवहेऊ नाणमेयस्स, पायसोऽसप्पवित्तिभावेणं । तह तयणुबंधओ च्चिय, तत्तेयरनिंदणाइओ ||४४६ ॥” ( भवहेतुर्ज्ञानमेतस्य प्रायशोऽसत्प्रवृत्तिभावेन । तथा तदनुबन्धत एव तच्वेतरनिन्दनादितः । ) भवहेतुः संसारनिबन्धनं ज्ञानं| शास्त्राभ्यासजन्यो बोधः, एतस्य मिथ्यादृष्टेः, कथम् । इत्याह-प्रायशो बाहुल्येन, असत्प्रवृत्ति भावेन विपर्यस्तचेष्टाकरणात् तस्य, यदि प्रायोग्रहणं तद् यथाप्रवृत्त करणचरमविभागभाजां संनिहितग्रन्थिभेदानामत्यन्तजीर्ण मिध्यात्वज्वराणां केषाञ्चिद्दुःखितदया - गुणवदद्वेष - समुचिताचारप्रवृत्तिसाराणां सुन्दरप्रवृत्तिभावेन व्यभिचारवारणार्थम् । तथेति हेत्वन्तरसमुच्चये । तदनुबन्धत एवासत्प्रवृत्यनुबन्धादेव । एतदपि कुतः ? इत्याह-तत्त्वेतरनिन्दनादितः । स हि मिथ्यात्वोपघातात्समुपात्तविपरीतरुचिः, तत्त्वं च सद्भूतदेवतादिकमर्हस्वादिलक्षणम्, 'निंद'त्ति इतरच्चातच्वं तत्कुयुक्तिसमुपन्यासेन पुरस्करोति ततस्तत्त्वेतरनिन्दनादितो दोपाद् भवान्तरेऽप्यसत्प्रवृत्तिरनुबन्धयुक्तस्यैव स्यादित्युपदेशपदवचनान्तरमनुसृत्यात्रानादिप्रवाहपतितस्य यथाप्रवृत्तकरणस्य चरमविभागः सम्यक्त्वप्राप्तिहेतुकर्मक्षयोपशमलक्षितावस्थाविशेषस्तद्वतां संनिहितग्रन्थिभेदानां स्वल्पकालप्राप्तव्य सम्यक्त्वानामत्यन्तजीर्णमिध्यात्वज्वराणां सुन्दरप्रवृत्तिरिति भणनेन तद्व्यतिरिक्तानां तु सर्वेषामपि मिथ्यादृशामसुन्दरप्रवृत्तिरेवोक्तेति सूक्ष्मदृशा पर्यालोच्यमिति तेनोक्तम् । तत्रेदं विचारणीयम् - चरमत्वं यथाप्रवृत्त करणस्यानन्त पुद्गल परावर्त भाविनश्वरमै कावर्तमात्रेणापि निर्वाह्यम्, संनिहितग्रन्थिभेदत्वस्य तु खल्पकाप्राप्तन्य सम्यक्त्वाक्षेपकता || “आसन्ना चेयमस्योच्चै - वरमावर्तिनो यतः । भूयांसोऽमी व्यतिक्रान्ता - स्तदेकोऽत्र न किंचन ॥ १७६ ॥ आसन्ना चाभ्यर्णवर्तिन्येव, इयमुक्तिः, अस्योच्चैरतीव, चरमावर्ति नश्वरमपुद्गल परावर्तभाजो जीवस्य यतः कारणाद् भूयांसो अती सटिप्पणा | स्वोपज्ञ |वृत्तिः ॥ गाथा - १७ ॥ ७३ ॥
SR No.600371
Book TitleDharm Pariksha
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1942
Total Pages304
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy