SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ धर्मपरीक्षां ॥७१॥ माणुसारिभावोति । भवाभिनन्दिदोषाणाम् - "क्षुद्रो लो (ला) भरतिदींनो, मत्सरी भयवान् शठः ॥ अज्ञो भवाभिनन्दी स्यान्निष्फलारम्भसङ्गतः ।।७६ ( योगबिन्दु ८७ ) इति योगदृष्टि० इलोकोक्तानां विगमे सति, गुणवृद्धया चरमे पुद्गल परावर्त एव मार्गानुसारिभावो भवति । अपुनर्बन्धकादेर्मागांनुसारिप्रौढप्रज्ञानुगतत्ववचनात् तस्य चैतावत्कालमानत्वात् । अत एव वचनौषध प्रयोगकालश्वरमपुद्गलपरावर्त एवोक्तो व्यवहारतः, निश्चयतस्तु ग्रन्थिभेदकालस्तत्रापि ग्रन्थिभेदकाल एव न्यूनत्वेन पुरस्कृतः । तथा चोपदेशपदसूत्रवृत्ती - "घणमिच्छत्तो कालो, एत्थ अकालो उ होइ गायव्वो । कालो उ अपुणबंधग-पभिई धीरेहिं णिद्दिट्ठो |||४३२३॥ [घनमिथ्यात्वः कालोऽत्राकालस्तु भवति ज्ञातव्यः । कालवा पुनर्बन्धकप्रभृतिर्धी रैर्निर्दिष्ट: ।।] णिच्छयओ पुण एसो, विन्नेओ | गंठिभे अकालंभि (लोड)। एयंमि विहिसयपालणाउ आरोग्गमेयाओ ।। ४३३ ॥ " घनं महामेघावलुप्तस कलनक्षत्रादिप्रमाप्रसरभाद्रपदाद्यमावास्यामध्यभागसमुद्भूतान्धकारनिविडं, मिथ्यात्वं तत्त्वविपयासलक्षणं यत्र स्व तथा, कालश्वरम पुद्गल परावर्तव्यतिरिक्तशेषपुद्गलपरावर्तलक्षणः, अत्र - वचनौषधप्रयोगे, अकालस्तु अकाल एव भवति ज्ञातव्यः । चरमपुद्गलपरावर्तलक्षणस्तु तथा भव्यत्व परिपाकतो बीजाधानोद्भेदपोषणादिषु स्यादपि काल इति । अत एवाह-कालस्त्ववसरः पुनः, अपुनबैन्धकप्रभृतिः । तत्रापुनर्बन्धकः "पावं गतिवभावा कुणइ (पञ्चाशके)" इत्यादिलक्षणः, आदिशन्दान्मार्गाभिमुख मार्गपतितौ गृह्येते । तत्र मार्गो ललितविस्तरायामनेनैव शास्त्र कृत्थंलक्षणो निरूपितः 'मग्गदयाणं' इत्याद्यालापकव्याख्यायां, "मार्गश्चेतसोऽवक्रगमनम् भुजङ्गमनलिकायामतुल्यो विशिष्टगुणस्थानावाप्तिप्रवणः, स्वरसवाही क्षयोपशमविशेषो हेतु-स्वरूप-फलशुद्धामुखेत्यर्थः " तत्र पतितो भव्य विशेषो मार्गपतित इत्युच्यते, तदादिभावाप नव मार्गाभिमुख इति । एतौ च चरमयथाप्रवृत्त करणभागभाजावेव विज्ञेयौ । अपुनर्बन्धको पुनर्बन्धककालः, प्रभृतिर्यस्य स तथा, सटिप्पणा ॥खोपज्ञ वृत्तिः ॥ गाथा - १७ ॥७१॥
SR No.600371
Book TitleDharm Pariksha
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1942
Total Pages304
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy