________________
क
धर्मपरीक्षा १७०॥
- IACHECCAE%
द्रव्यसम्यक्त्वाद्यध्यारोपणेन मागानुसारिताहेतुः, तथा सद्ग्रहप्रवृत्तानां तेषामभयामिमतयमनियमादिशुद्धखरूपक्रियाऽपि पारमार्थिक
सटिप्पणा वस्तुविषयपक्षपाताधानद्वारा तथा हेयोपादेयविषयमात्रपरीक्षाप्रवणत्वादध्यात्मविदां तथा च नियतक्रियाया मार्गानुसारिभावजननेऽनै
॥ खोपच कान्तिकत्वमात्यन्तिकत्वं वा, तथा च जैनक्रियां विनाऽपि भावजनानां परेषां मार्गानुसारित्वादाज्ञासम्भवोऽविरुद्ध इति । युक्तं चैतद्, चिः ॥ न चेदेवं तदा जैनक्रियां विना भावलिङ्गबीजाभावाद् भावलिङ्गस्यापि परेषामनुपपत्तावन्यलिङ्गसिद्धादिभेदानुपपत्तेः। यः पुनराह- * गाथा-१६ परसमयानभिमतस्वसमयाभिमतक्रियैव असदग्रहविनाशद्वारा मार्गानुसारिताहेतुरिति, तदसत, उभयाभिमताकरणनियमादिनैव पत
॥७०॥ जल्यादीनां मार्गानुसारिताऽभिधानात, व्युत्पन्नस्य मार्गानुसारितायां तत्त्वजिज्ञासामूलविचारस्यैव हेतुत्वाव, अव्युत्पन्नस्य तस्यां गुरुपारतन्त्र्याधानद्वारा स्खसमयामिमतक्रियाहेतुत्वे परसमयानभिमतत्वप्रवेशे प्रमाणाभावाच । भवाभिनन्दिदोषप्रतिपक्षा गुणा एव हि | नियता मार्गानुसारिताहेतवः, क्रिया तु क्वचिदुभयाभिमता, कचिच्च स्वसमयाभिमते त्यनियता हेतुः, परकीयसंमतेनिजमार्गदाढर्थहेतुत्वं | 2
वा व्युत्पन्नमभिनिविष्टं वा प्रति, न तु व्युत्पन्नमनभिनिविष्टं वा प्रतीति । यत्तु निश्चयतः परसमयबाह्यानामेव सङ्गम-नयसारा| ऽम्बडप्रमुखानां मार्गानुसारित्वं स्यात्, नान्येषामिति केषाश्चिन्मतम्, तत्वेषामेव प्रतिकूलम् , सद्ग्र(द)हप्रवृत्तिजनितनैश्चयिकपरसमयबाह्यतया पतञ्जल्यादीनामप्यम्बडादीनामिव मार्गानुसारित्वाप्रतिघातात् । इयानेव हि विशेषो यदेकेषामपुनर्बन्धकत्वेन तथात्वम्, अपरेषां तु श्राद्धत्वादिनेति ॥ १६ ॥ अयं मार्गानुसारिभावः कदा स्यात् ? इत्येतत्कालमानमाहमग्गाणुसारिभावो, जायइ चरमंमि चेव परिअट्टे ॥ गुणवुढीए विगमे, भवाभिनंदिदोसाणं ॥ १७ ॥
[ मार्गानुसारिभावो जायते चरम एव परिवर्ते । गुणवृद्ध्या विगमे भवाभिनन्दिदोषाणाम् ॥ १७॥]
सCHA5%