________________
धर्मपरीक्षा ॥ ६९ ॥
न्त्रान्तराभिप्रायेणापि, ग्रन्थिभेदे रागद्वेषमोहपरिणामस्यातीवदृढस्य विदारणे, तथा यथाप्रवृत्त्यादिकरणप्रकारेण, सति विद्यमाने, किम् ? इत्याह- सम्यग्दृष्टिः शुद्धसम्यक्त्वधरो, भवति सम्पद्यते । कीदृश: ? इत्याह-उच्चैः अत्यर्थ प्रागवस्थातः सकाशात्, प्रशमादिगुणान्वितः उपशम-संवेग - निर्वेदा - ऽनुकम्पा -ऽऽस्तिक्याभिव्यक्तियुक्त इति । एवं परेषामपि माध्यस्थ्ये द्रव्याज्ञासद्भावः सिद्धः || १५ || ननु द्रव्याज्ञाऽपि सिद्धान्तोदितक्रियाकरणं विना कथं परेषां स्यात् । इत्यत आह
मग्गानुसारिभावो, आणाए लक्खणं मुणेयव्वं । किरिया तस्स ण नियया, पडिबंधे वावि उपगारे ॥ १६॥ [मार्गानुसारिभाव आज्ञाया लक्षणं ज्ञातव्यम् । क्रिया तस्य न नियता प्रतिबन्धे वाऽप्युपकारे ।। १६ ।।] मंग्गाणुसारिभावोति | मार्गानुसारिभावो "निसर्गतस्तत्त्वानुकूलप्रवृत्तिहेतुः परिणामः" आज्ञाया लक्षणं मुणेयव्वं ति ज्ञातव्यम् । क्रिया स्वसमय परसमयोदिताचाररूपा, तस्य मार्गानुसारिभावस्य, उपकारे प्रतिबन्धे वा न नियता, स्वसमयोदितक्रिया| कृतमुपकारं विनाऽपि मेघकुमारजीव हस्त्यादीनां तथाभव्यत्वपरिपाका हिताऽनुकम्पादिमहिम्ना मार्गानुसारित्वसिद्धेः, परसमयक्रियायां च सत्यामपि समुल्लसित योगदृष्टिमहिम्नां पतञ्जल्यादीनां मार्गानुसारित्वाप्रतिघातात् । अत्र कश्चिदाह - ननु पतञ्जल्यादीनां मार्गानुसारित्वमशास्त्रसिद्धम्, उच्यते - नैतदेवं योगदृष्टिसमुच्चयग्रन्थ एव योगदृष्टयभिधानात् तेषां मार्गानुसारित्वसिद्धेः । “उक्तं च निरूपितं पुनः, योगमार्गज्ञैरध्यात्मविद्भिः पतञ्जलिप्रभृतिभिः, तपोनिर्द्धतकल्मषैः प्रशमप्रधानेन तपसा क्षीणप्रायमार्गानुसारिबोधबाधक मोहमूलैरिति" "उक्तं च योगमार्गज्ञैस्तपोनिर्द्धत कल्मषैः । (श्लो०६६ ) " - इति प्रतीकं विवृण्वता योगविन्दुवृत्तिकृताऽपि तेषां तदभिधानाचेति ।। अयमिह परमार्थ:-अच्युत्पन्नानां विपरीतव्युत्पन्नानां वा परसमयस्थानां जैन भिमतक्रिया यथाऽसद्ग्रहपरित्याजनद्वारा
सटिप्पणा || स्वोपज्ञ
वृतिः ॥ गाथा - १६
॥ ६९ ॥