SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ A धर्मपरीक्षा ॥६॥ | सटिप्पणा ॥स्वोपन. वृत्तिः ॥ गाथा-१५ ॥ ६८॥ CASTHAHASABSE नयोचितस्थितिः,अपेक्षितव्यो लोकमार्गः,माननीया गुरुसन्न(सह)तिः, भवितव्यमेतत्तन्त्रेण.प्रवर्तितव्यं दानादौ, कर्तव्योदारपूजा भग| वताम्, निरूपणीयः साधुविशेषः,श्रोतव्यं विधिना धर्मशास्त्रम्,भावनीयं महायत्नेन,प्रवत्तितव्यं विधानतो अवलम्बनीयं धैर्य, पर्यालोचनीयाऽऽयतिः, अवलोकनीयो मृत्युः, परिहर्तव्यो विक्षेपमार्गः, यतितव्यं योगसिद्धौ, कारयितव्या भगवत्प्रतिमा, लेखनीयं भुवनेश्वरवचनम्. कर्तव्यो मङ्गलजापः, प्रतिपत्तव्यं चतुःशरणम्, गार्हतव्यानि दुष्कृतानि, अनुमोदनीयं कुशलम्, पूजनीया मन्त्रदेवता, | श्रोतव्यानि सच्चष्टितानि, भावनीयमौदार्यम्. वर्तितव्यमुत्तमज्ञातेन, एवम्भृतस्य येह प्रवृत्तिः सा सर्वैव साध्वी मार्गानुमारीत्ययं निय| मादपुनर्बन्धकादिस्तदन्यस्यैवभूतगुणसंपक्षेऽभावात्"इत्यत आह-यद् यस्माद्,अपुनर्बन्धकानां चित्रमने कविधम् . अनुष्ठानमुपदिष्टम्, अतो भिन्नाचारस्थितानामपि तेषां द्रव्याज्ञाया नानुपपत्तिरिति । इदमत्र हृदयम् । न ह्यादिधार्मिकस्य विधिः सर्व एव सर्वत्रोपयुज्यते, किन्तु क्वचित्कश्चिदेवेति । भिन्नाचारस्थितानामप्यन्तःशुद्धिमतामपुनर्बन्धकत्वमविरुद्धम्, अपुनर्बन्धकस्य हि नानास्वरूपखात् तत्तत्तन्त्रोक्ताऽपि मोक्षार्था क्रिया घटते,सम्यग्दृष्टेश्च स्वतन्त्रक्रियैवेति व्यवस्थितखात् । तदुक्तं योगबिन्दुसूत्रवृत्त्योः॥"अपुनर्बन्धकस्यैवं, सम्यग्नीत्योपपद्यते । तत्तत्तन्त्रोक्तमखिल-मवस्थाभेदसंश्रयात ॥२५१॥" अपुनर्बन्धकस्योक्तरूपस्य,एवमुक्तरूपेण, सम्यग्नीत्या-शुद्धयुक्तिरूपया, उपपद्यते घटते । किम् ? इत्याह ।। तत्तत्तन्त्रोक्तं कापिल-सौगतादिशास्त्रप्रणीतं मुमुक्षुजनयो. ग्यमनुष्ठानम्,अखिलं समस्तम्, कुतः ? इत्याह-अवस्थाभेदमंश्रयात्-अपुनर्बन्धकस्यानेकखरूपाङ्गीकरणत्वात्, अनेकस्वरूपाभ्युपगमे हि अपुनर्बन्धकस्य किमप्यनुष्ठानं कस्यामप्यवस्थायामवतरतीति। अथापुनर्बन्धकानन्तरं कोत्त)यद्भवति तद्दर्शयति-"स्वतन्त्रनीतितस्त्वेव, ग्रन्थिभेदे तथा सति । सम्यग्दृष्टिर्भवत्युच्चैः, प्रशमादिगुणान्वितः ॥ २५२ ॥" स्वतन्त्रनीतितस्त्वेव जैनशास्त्रनीते रेव, न पुनस्त
SR No.600371
Book TitleDharm Pariksha
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1942
Total Pages304
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy