________________
धर्मपरीक्षा
॥ ६७ ॥
सदाऽभव्यः ॥ अन्यः पुनर्योग्यत्वे चित्रे नयभेदतो ज्ञातव्यः । वैमानिकोपपात इति द्रव्यदेवो यथा साधुः । तत्राभव्यादीनां ग्रन्थि - गसत्त्वानामप्रधान इति । इतरेषां योग्यतया भावाज्ञाकारणत्वेन ||] अत्र हि द्रव्यशब्दस्य द्वावर्थी — प्रधानभावकारणं भावांशविकलं केवलमप्राधान्यम् । संग्रहव्यवहारनय विशेषाद् विचित्रमेकभविकबद्धायुष्का भिमुखनामगोत्र लक्षणं तत्तत्तत्पर्यायसमुचितभावरूपं योग्यत्वं च । तत्र प्रथमार्थेनाभव्य सकृद्बन्धकादीनां द्रव्य क्रियाभ्यासपराणां द्रव्याज्ञा । द्वितीयार्थेन चापुनर्बन्धकादीनामिति वृत्तितात्पर्यार्थः । नन्वेवृमपुनर्बन्धकानां द्रव्याज्ञा व्यवस्थिता तथाऽपि भिन्नमार्गस्थानां मध्यस्थानामपि मिथ्यादृशां कथमेषा संभवति ?, जैनमार्गक्रिययैवान्युत्पन्नदशायामपुनर्बन्धकत्वसिद्धे वीजाधानस्यैव तल्लिङ्गत्वात् तस्य च सर्वज्ञवचनानुसारिजिन मुनिप्रभृतिपदार्थकुशलचित्ता| दिलक्ष्यत्वाद् । तदुक्तमुपदेश पदवृत्तिकृता - "आणापरतंतेहि ता बीआहाणमेत्थ कायव्वं । धम्मंमि जहासत्ती, परमसुहं इच्छमाणेहिं ।। २२५ ।। ” [आज्ञापरतन्त्रैस्तसाद्वीजाधानमत्र कर्तव्यम् । धर्मे यथाशक्ति परमसुखमिच्छद्भिः ।। ] इति गाथां विवृण्वता धर्मबीजानि चैवं शास्त्रान्तरे परिपठितानि दृश्यन्ते ( योगदृष्टिसमुच्चये) "जिनेषु कुशलं चित्तं तन्नमस्कार एव च । प्रणामादि च संशुद्धं, योगबीजमनुत्तमम् ॥ २३ ॥ उपादेयधियाऽत्यन्तं, संज्ञा विष्कम्भणान्वितम् । फलाभिसन्धिरहितं संशुद्धं ह्येतदीदृशम् ॥ २५॥ आचार्यादिपि ह्येत - द्विशुद्धं भावयोगिषु । वैयावृत्त्यं च विधिव-च्छुद्धाशय विशेषतः ॥ २६ ॥ भवोद्वेगश्व सहजो, द्रव्याभिग्रहपालनम् । तथा सिद्धान्तमाश्रित्य विधिवद् (ना) लेखनानि (दि) च ||२७|| लेखना पूजना दानं, श्रवणं वाचनोद्ग्रहः । प्रकाशनाऽथ खाध्याय - चिन्तना भावनेति च ॥ २८॥ दुःखितेषु दयाऽत्यन्त-मद्वेषो गुणवत्सु च । औचित्यासे ( त्से) वनं चैव सर्वत्रैवाविशेषतः ॥ ३२ ॥” इति ॥ ललितविस्तरायामप्युक्तम् - " एतत्सिद्ध्यर्थं तु यतितव्यमादिकर्मणि, परिहर्तव्यो ऽकल्याणमित्रयोगः, सेवितव्यानि कल्याणमित्राणि, न लङ्घ
सटिप्पना || स्वोपज्ञ वृत्तिः ॥
गाथा - १५ ॥ ६७ ॥