________________
धर्मपरीक्षा
॥ ६६ ॥
स्थितः || ३०१ || मुक्तो बुद्धोऽईन वापि य- दैश्वर्येण समन्वितः । तदीश्वरः स एव स्यात्, संज्ञाभेदोऽत्र केवलम् ॥ ३०२ ॥ अनादिशुद्ध इत्यादि-य मेदो यस्य कल्प्यते । तत्तत्तन्त्रानुसारेण, मन्ये सोऽपि निरर्थकः ॥ ३०३ ॥ विशेषस्यापरिज्ञानाद्, युक्तीनां जातिवादतः । प्रायो विरोधतश्चैव, फलामेदाच्च भावतः ३०४ ॥ अविद्याक्लेशकर्मादि यतश्च भवकारणम् । ततः प्रधानमेवैत-त्संज्ञामेदमुपागतम् || ३०५ ।। अत्रा (स्या ) पि यो परो भेद - श्वित्रोपाधिस्तथा तथा । गीयतेऽतीत हेतुभ्यो, धीमतां सोऽप्यपार्थकः ॥ ३०६ ॥ ततोऽस्थानप्रयासोऽयं यत्तद्भेदनिरूपणम् । सामान्यमनुमानम्य, यतश्च विषयो मतः ॥ ३०७ ॥ साधु चैतद् यतो नीत्या, शाखमत्र | प्रवर्तकम् । तथाऽभिधानभेदात्तु, भेदः कुचितिकाग्रहः ॥ ३०८ ॥ " इत्यादि । अथैतेषां भावजैनत्वे आज्ञासम्भवमाह - दव्वाणा खलु तेसिं, भावाणाकारणत्तओ नेया ॥ जं अपुणबंधगाणं, चित्तमणुट्टामुव ॥ १५ ॥ [द्रव्याज्ञा खलु तेषां भावाज्ञाकारणत्वतो ज्ञेया । यदपुनर्बन्धकानां चित्रमनुष्ठानमुपदिष्टम् ।। १५ ।।] दवाणत्ति । तेषामवेद्यसंवेद्यपदस्थानां भावजैनानां, खलु इति निश्वये, भावाज्ञायाः सम्यग्दर्शनादिरूपायाः, कारणत्वतो, द्रव्याज्ञा ज्ञेयाsपुनर्बन्धकोचिताचारस्य पारम्पर्येण सम्यग्दर्शनादिसाधकत्वात् । तदुक्तं चोपदेशपदे - " गंठिगसत्ताsपुणबंधगा आपि दव्वओ आणा । णवरमिह दव्वमद्दो, भइअच्वो समयणीईए ॥ २५३ ॥ एगो अप्पाहने, केवलए चैव बट्टई एत्थ । अंगारमद्दगो जह, दव्वाय रिओ सयाभव्व ॥ २५४ ॥ अन्नो पुण जोग्गत्ते, चित्ते णय भेअओ मुणेअव्वो । वेमाणिओववाओ-त्ति दव्वदेवो जहा साहू ॥ २५५ ॥ तत्था भव्वादीणं, गंठिगसत्ताणमप्पहाणत्ति । इय रेसिं जोग्गयाए, भावाणाकारण तेणं ॥ २५६ ॥ । [ ग्रन्थिमसत्त्वा पुनर्वन्धकादीना मपि द्रव्यत आज्ञा । केवलमिह द्रव्यशब्दो भक्तव्यः समयनीत्या || एकोऽगाधान्ये केवले एव वर्ततेऽत्र । अङ्गारमर्दको यथा द्रव्याचार्यः
सटिप्पणा || स्वोपज्ञ वृतिः ॥
गाथा - १५
॥ ६६ ॥