________________
धर्मपरीक्षा
सटिप्पणा ॥स्वोपज्ञ वृत्तिः ॥ गाथा-१५
सर्वज्ञपूर्वकं चैत-नियमादेव यस्थितौ ॥ आसन्नोऽयमृजुर्मार्ग-स्तद्भेदस्तत्कथं भवेत् ॥ १३३ ॥” इति । ननु देशनाभेदान्नैकः सर्वज्ञ इति सर्वेषां योगिनां नैकसर्वज्ञभक्तत्वमिति चेद् । न, विनेयानुगुण्येन सर्वेषां देशनामेदोपपत्तेः, एकस्यैव वा तस्या वक्तुरचिन्त्यपुण्यप्रभावेन श्रोतृभेदेन भिन्नतया परिणतेः कपिलादीनामृषीणामेव वा कालादियोगेन नयभेदात्तद्वैचित्र्योपपत्तेः, तन्मूलसर्वज्ञप्रतिक्षेपस्य महापापत्वात् । उक्तं च-"चित्रा तु देशनैतेषां स्याद्विनेयाऽऽनुगुण्यतः॥ यस्मादेते महात्मानो, सर्व व्याधिभिषग्वराः ॥ १३४॥ यस्य येन प्रकारेण, बीजाधानादिसम्भवः । साधु (नु) बन्धो भवत्येते, तथा तस्य जगुस्ततः ॥ १३५ ॥ एकापि देशनैतेषां, यद्वा श्रोतृधिभेदतः । अचिन्त्यपुण्यसामर्थ्या-त्तथा चित्राऽवभासते ॥ १३६॥ यथाभव्यं च सर्वेषा-मुपकारोऽपि तत्कृतः । जायते वन्ध्यताऽप्येव-मस्याः सर्वत्र सुस्थिता ॥ १३७ ॥ यद्वा तत्तन्नयापेक्षा, तत्तत्कालादियोगतः । ऋषिभ्यो देशना चित्रा, तन्मूलैषाऽपि तत्त्वतः ॥१८॥ सदभिप्रायमज्ञात्वा, न ततोऽर्वागूदृशां सताम् । युज्यते तत्प्रतिक्षेपो, महानर्थकरः परः ॥ १३९ ॥ निशानाथप्रतिक्षेपो, यथाऽन्धानामसङ्गतः । तद्भेदपरिकल्पश्च, तथैवाग्दृिशामयम् ॥ १४० ॥ न युज्यते प्रतिक्षेपः, सामान्यस्यापि तत्स ताम् । आर्यापवादस्तु पुन-जिह्वाच्छेदाधिको मतः॥१४॥कुदृष्टा( ष्टया) दि च नो(वनो) सन्तो, भाषन्ते प्रायशः क्वचित । निश्चितं सारखच्चैव,किन्तु सत्वार्थकृत्सना(दा)॥१४२॥” इति । ननु यद्येवंविधं माध्यस्थ्यं परेषां स्यात् तदा मार्गाभाव(वे)जैनत्वं भवेत, तदेव तु व्यवहारतो जैनमार्गानाश्रयणे दुर्घटमिति न तेषां माध्यस्थ्यमिति चेद् । न, मोहमान्ये परेषामपि योगिनामेतादृशमाध्यस्थ्यस्येष्टत्वाद्, यदयं कालातीतवचनानुवादो योगबिन्दौ ।। "माध्यस्थ्यमवलम्ब्यैव-मैदम्पर्यव्यपेक्षया ॥ तत्त्वं निरूपणीयं स्यात् । कालातीतोऽप्यदोऽब्रवीत् ॥१॥(श्लो० ॥३०॥) अन्येषामप्ययं मार्गो,मुक्ताविद्यादिवादिनाम् ॥अमिधानादिभेदेन,तत्त्वनीत्या व्यव