________________
धर्मपरीक्षा ॥६ ॥
*
*
गलिआसग्गहदोसत्ति । ते लब्धयोगदृष्टयो मिथ्यात्ववन्तोऽवेद्यसंवेद्यपदगता अपि तत्त्वश्रवणपर्यन्तगुणलाभेऽपि कर्म
सटिप्पणा वनविभेदलभ्यानन्तधर्मात्मकवस्तुपरिच्छेदरूपसूक्ष्मबोधाभावेन वेद्यसंवेद्यपदाधस्तनपदस्थिता अपि भावेन जैनत्वं यान्ति वेद्यसंवेद्या
खोपज्ञ वेद्यसंवेद्यपदयोर्लक्षणमिदम्-"वेद्यं संवेद्यते यसि-बपायादिनिवन्धनम् । पदं तद्वद्यसंवेद्य-मन्यदेतद्विपर्ययात् ॥” इति ॥७३॥ अस्यार्थः
वृत्तिः ॥ | वेद्यं वेदनीयं वस्तुस्थित्या तथाभावयोगिसामान्येनाविकल्पज्ञानग्राह्यमित्यर्थः। संवेद्यते क्षयोपशमानुरूपं विज्ञायते, यस्मिन्नाशय- गाथा-१४ स्थाने, अपायादिनिवन्धनं नरकवर्गादिकारणं स्त्र्यादि, तद् वेद्यसंवेद्यपदं निश्चितागमतात्पर्यार्थयोगिनां भवति । अन्यदवेद्यसं- ॥६३॥ वेद्यपदम् । एतद्विपर्ययात्-उक्तलक्षणव्यत्ययात् स्थूलबुद्धीनां भवति ॥ कथं ते भावजैनत्वं यान्ति ? इत्यत्र हेतुमाह-सर्वज्ञभृत्य
भावात् सर्वत्र धर्मशास्त्रपुरस्कारेण तद्वक्ससर्वज्ञसेवकत्वाभ्युपगमात् । नन्वेवमनुच्छिन्ना जैनाः, जैनव्यवस्थाबाबैरपि सर्वैर्नाममात्रेण 3 | सर्वज्ञाभ्युपगमात् तेषामपि जैनत्वप्रसङ्गादित्यतस्तेषां विशेषमाह-गलितीसग्रहदोषा इति । येषां ह्यसद्ग्रहदोषात्स्वस्वाभ्युपगतार्थपुरस्कारस्तेषां रागद्वेषादिविशिल्प(ष्ट)कल्पितसर्वज्ञाभ्युपगन्तृत्वेऽपि न भावजैनत्वम् । येषां तु माध्यस्थ्यावदातबुद्धीनां विप्रतिपत्तिविषयप्रकारांशे नाग्रहस्तेषां मुख्यसर्वज्ञाभ्युपगन्तृत्वाद् भावजैनत्वं स्थादेव इति भावः । मुख्यो हि सर्वज्ञस्तावदेक एव, निरतिशयगुणवत्त्वेन तुत्प्रतिपत्ति(त्त)त्वं यावतां तावतां तद्भक्तत्वमविशिष्टमेव, सर्वविशेषाणां छमस्थेनाग्रहाद्दूरासन्नादिभेदस्य च भृत्यत्वजात्यभेदकत्वादिति। तदुक्तं योगदृष्टिसमुच्चये-“न तत्त्वतो भिन्नमताः, सर्वज्ञा बहवो यतः॥ मोहस्तदधिमुक्तीनां, तद्भेदाश्रयणं ततः ॥ १०२॥ सर्वज्ञो नाम यः कश्चित, पारमार्थिक एव हि ॥ स एक एव सर्वत्र, व्यक्तिमेदेऽपि तत्त्वतः ॥१०३॥ प्रतिपत्तिस्ततस्तस्य, सामान्येनैव यावताम् ।। ते सर्वेऽपि तमापना, इति न्यायगतिः परा ॥ १०४ ॥ विशेषस्तु पुनस्तस्य, कात्स्न्]नासर्वदर्शिमिः ॥ सर्वैर्न ज्ञायते तेन,
*