SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ 162 धर्मपरीक्षा ॥६२॥ सटिप्पणा |॥ खोपक्ष | वृतिः ॥ गाथा-१३ ॥६ ॥ 4NCRECORCHCG भवति । दीपायां दृष्टौ प्राणायामः, प्रशान्तवाहितालाभाद् योगोत्थानविरहः, तत्त्वश्रवणम, प्राणेभ्योऽपि धर्मस्थाधिकत्वेन परिज्ञानम, | तत्त्वश्रवणतो गुरुभक्तेरुद्रेकात्समापत्त्यादिभेदेन तीर्थकद्दर्शनं च भवति। तथा मित्रादृष्टिस्तृणाग्निकणोपमा न तत्त्वतोऽभीष्टकार्यक्षमा, सम्यक् प्रयोगकालं यावदनवस्थानात्, अल्पवीर्यतया ततः पटुस्मृतिबीजसंस्काराधानानुपपत्तेः, विकलप्रयोगभावाद् भावतो वन्दनादि. कार्यायोगादिति । तारादृष्टिोमयाग्निकणसदृशी, इयमप्युक्तकल्पैव, तत्त्वतो विशिष्टस्थितिवीर्यविकलत्वाद् । अतोऽपि प्रयोगकाले स्मृतिपाटवासिद्धेः, तदभावे प्रयोगवैकल्यात्, ततस्तथातत्कार्याभावादिति । बलादृष्टिः काष्ठाग्निकणतुल्या, ईषद्विशिष्टोक्तबोधद्वयात्, | तद्भावेनाऽत्र (तद्भवतोत्र) मनास्थितिवीर्ये, अतः पटुप्राया स्मृतिरिह, प्रयोगसमये तद्भावे चार्थप्रयोगमात्रप्रीत्या यत्नलेशभावादिति । दीपादृष्टिीपप्रभासदृशी, विशिष्टतरोक्तवीर्यबोधत्रयाद्, अतोऽत्रोदने स्थितिवीर्ये, तत्पद्व्यपि प्रयोगसमये स्मृतिः । एवं भावतोऽप्यत्र द्रव्यप्रयोगो वन्दनादौ, तथा भक्तितो यत्नभेदप्रवृत्तेरिति प्रथमगुणस्थानप्रकर्ष एतावानिति समयविदः। इत्थं चोक्तस योगदृष्टिसमुच्चयग्रन्थार्थस्यानुसारेण मिथ्यादृष्टीनामपि मित्रादिदृष्टियोगेन तथा(थ्य)गुणस्थानकत्वसिद्धेः, तथाप्रवृत्तेरनाभिग्रहिकत्वमेव तेषां शोभनमित्यापन्नम् ॥१३।। ननु योगदृष्ट्यापि मिथ्यादशां कथं गुणभाजनत्वम् ? जैनत्वप्राप्तिं विना गुणलाभासम्भवाद् दृष्टिविपर्यासस्य दोषस्य सत्त्वाद् । अत एवोक्तम्-"मिथ्यात्वं परमो रोगो, मिथ्यात्वं परमं तमः॥ मिथ्यात्वं परमः शत्रु-मिथ्यात्वं पदमापदाम् ॥१॥" इत्याशङ्कथाहगलिआसग्गहदोसा, अविजसंविजपयगया तेवि ॥ सव्वण्णुभिच्चभावा, जइणत्तणं जति भावेणं ॥ १४ ॥ [ गलितासद्ग्रहदोषा अवेद्यसंवेद्यपदगतास्तेऽपि । सर्वज्ञभृत्यभावाद् जैनत्वं यान्ति भावेन ॥ १४ ॥] HARAAN ॐ
SR No.600371
Book TitleDharm Pariksha
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1942
Total Pages304
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy