SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ धर्मपरीक्षा ॥६ ॥ PRECAUSA [ इतश्च गुणस्थानं, प्रथमं खलु लब्धयोगदृष्टीनाम् । मिथ्यात्वेऽपि प्रसिद्ध परमार्थगवेषणपराणाम् ।। १३ ॥] इतश्चानाभिग्रहिकस्य हितकारित्वादेव च, मिथ्यात्वेऽपि, खल्विति निश्चये, लब्धयोगदृष्टीनां मित्रादिप्रथमदृष्टिचतुष्टयप्रा तसटिप्पणा प्तिमतां, परमार्थगवेषणपराणां मोक्षकप्रयोजनानां योगिनां, प्रथमं गुणस्थानमन्वर्थ, प्रसिद्धम् । अयं भावः-मिथ्यादृष्टयोऽपि स्वोपज्ञ परमार्थगवेषणपराः सन्तः पक्षपातं परित्यज्याद्वेषादिगुणस्थाः खेदादिदोषपरिहाराद् यदा संवेगतारतम्यमाप्नुवन्ति तदा मार्गामिमु- वृत्तिः ॥ ख्यात्तेषामिक्षु-रस-कक्कब-गुडकल्पा मित्रा तारा बला दीपा चेति चतस्रो योगदृष्टय उल्लसन्ति, भगवत्पतञ्जलिभदन्तभास्करादीनां *गाथा-१३ तदम्युपगमात् । तत्र मित्रायां दृष्टौ स्वल्पो बोधो, यमो योगाङ्गं देवकार्यादावखेदो, योगबीजोपादानं भवोद्वेगसिद्धान्तलेखनादिकं बीजश्रुतौ परमश्रद्धा, सत्संगमश्च भवति, चरमयथाप्रवृत्तकरणसामर्थ्यन कर्ममलस्याल्पीकृतत्वात् । अत एवेदं चरमयथाप्रवृत्तकरणं पर| मार्थतोऽपूर्वकरणमेवेति योगविदो विदन्ति। उक्तं च-"अपूर्वासनभावेन, व्यभिचारवियोगतः ॥ तत्त्वतोऽपूर्वमेवेद-मिति योगविदो विदुः ॥३९॥" अस्यां चावस्थायां, मिथ्यादृष्टावपि गुणस्थानपदस्य योगार्थघटनोपपद्यते । उक्तं च- "प्रथमं यद्गुणस्थानं, सामान्येनोपवर्णितम् ॥ अस्यां तु तदवस्थायां, मुख्यमन्वर्थयोगतः ॥४०॥" तारायां तु मनाक् स्पष्टं दर्शनम्, शुभा नियमाः, तत्वजिज्ञासा, योगकथास्वविच्छिन्ना प्रीतिः, भावयोगिषु यथाशक्त्युपचारः, उचितक्रियाऽहानिः, खाचारहीनतायां महात्रासः, अधिककृत्यजिज्ञासा च भवति, तथाऽस्यां स्थितः स्वप्रज्ञाकल्पिते विसंवाददर्शनानानाविधमुमुक्षुप्रवृत्तेः कात्स्न्येन ज्ञातुमशक्यत्वाच शिष्टाचरितमेव पुरस्कृत्य प्रवर्तते । उक्तं च-"नास्माकं महती प्रज्ञा, सुमहान् शास्त्रविस्तरः । शिष्टाःप्रमाणमिह त-दित्यस्यां मन्यते सदा ॥४८॥" बलायां दृष्टौ दृढं दर्शनम् , स्थिरसुखमासनम्, परमा तत्त्वशुश्रूषा, योगगोचरोऽक्षेपः, स्थिरचित्ततया योगसाधनोपायकौशलं च
SR No.600371
Book TitleDharm Pariksha
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1942
Total Pages304
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy