________________
%
धर्मपरीक्षा ॥६॥
RISAR
वसायस्य शोभनत्वे सम्यक्त्वोच्चारिणो "कप्पइ अणउत्थिए वा.” इत्यादिरूपेण मिथ्यात्वप्रत्याख्यानानुपपत्तिप्रसक्तेः । न हि शुभाध्यवसायस्य तद्धेतोर्वा प्रत्याख्यानं सम्भवति, ततः शुभाध्यवसायोऽपि तेषां पापानुबन्धिपुण्यप्रकृतिहेतुत्वेन नरकादिनिवन्धनत्वा
सटिप्पणा न्महानर्थहेतुरेव । न ह्यत्रापेक्षिकमपि शुभत्वं घटते,स्वस्त्रीसङ्गपरित्यागेन परस्त्रीसङ्गप्रवृत्तस्येव बहुपापपरित्यागमन्तरेणाल्पपापपरित्याग
॥स्वोपज्ञ
वृत्तिः ॥ स्याशुभत्वाद् । अत एव पृथिव्याद्यारम्भप्रवृत्तस्यापि सम्यग्दृशोऽन्यतीर्थिकदेवाद्याराधनपरित्यागोपपत्तिरिति परस्यैकान्ताभिनिवेशो
गाथा-१२ निरस्तः । उत्कटमिथ्यात्ववन्तं पुरुषं प्रतीत्य निजनिजदेवाद्याराधनप्रवृत्तेर्महानर्थहेतुत्वेऽप्यनाग्रहिकमादिधार्मिकं प्रति तथात्वस्याभावात्,18
॥६०॥ तस्याविशेषप्रवृत्तर्दुगतरणहेतुत्वस्य हरिभद्रसूरिभिरेवोक्तत्वात् । प्रत्याख्यानं च पूर्वभूमिकायां शुभाध्यवसायहेतोरप्युत्तरभूमिकायां स्वप्रतिपन्न विशेषधर्मप्रतिबन्धकरूपेण भवति, नैतावता पूर्वभूमिकायामपि तस्य विलोपो युक्तः। यथाहि-प्रतिपन्नकृत्स्नसंयमस्य जिनपूजायाः साक्षात्करणनिषेधात, तस्य स्वप्रतिपन्नचारित्रविरोधिपुष्पादिग्रहणरूपेण तत्प्रत्याख्यानेऽप्यकृत्स्नसंयमवतां श्राद्धानां न तदनौचित्यम, तथा प्रतिपन्नसम्यग्दर्शनानां स्वप्रतिपन्नसम्यक्त्वप्रतिबन्धकविपर्यासहेतुत्वेनाविशेषप्रवृत्तेः प्रत्याख्यानेऽपि नादिधार्मिकाणां तदनौचित्यमिति विभावनीयम् । नन्वेवमादिधार्मिकस्य देवादिसाधारणभत्ते: पूर्वसेवायामुचितत्वे जिनपूजावत्साधूनां साक्षात्तदकरणव्यवस्थायामपि तद्वदेवानुमोद्यत्वापत्तिरिति चेद् । न, सामान्य प्रवृत्तिकारणतदुपदेशादिना तदनुमोद्यताया इष्टत्वात्, केवलं सम्यक्त्वाद्यनुगतं कृत्यं स्वरूपेणाप्यनुमोद्यमितरच्च मार्गबीजवादिनेत्यस्ति विशेष इत्येतच्चाग्रे सम्यग् विवेचयिष्यामः ॥१२॥
अनामिग्रहिकस्य शोभनत्वमेव गुणान्तराधायकत्वेन समर्थयतिइत्तो अ गुणहाणं, पढमं खलु लद्धजोगदिट्ठीणं ॥ मिच्छत्तेवि पसिद्धं, परमत्थगवेसणपराणं ॥ १३॥
AN