________________
धर्मपरीक्षा ॥५७॥
सटिप्पणा स्वोपज्ञ वृत्तिः ॥ गाथा-१२ ॥५७॥
"देवपूजाविधिमाह-पुष्पैश्च बलिना चैव, वस्त्रैः स्तोत्रैश्च शोभनैः ॥ देवानां पूजनं ज्ञेयं, शौचश्रद्धासमन्वितम् ॥१॥ (श्लो ११६) | पुष्पैर्जातिशतपत्रकादिसम्भवः, बलिना पक्वान्नफलाद्युपहाररूपेण, वस्त्रैः वसनैः, स्तोत्रैश्च शोभनैः स्तवनैः, चशब्दौ चैवशब्दच समुच्चयार्थाः शोभनैरादरोपहितत्वेन सुन्दरैः, देवानामाराध्यतमानां, पूजनं ज्ञेयम् । कीदृशम् ? इत्याह-शौचश्रद्धासमन्वितम् । शौचेन शरीरवस्त्रद्रव्यव्यवहारशुद्धिरूपेण, श्रद्धया च बहुमानेन, समन्वितं युक्तमिति ॥ " अविशेषेण सर्वेषा-मधिमुक्तिवशेन वा ।। गृहिणां माननीया य-त्सर्वे देवा महात्मनाम् ॥२॥" (११७) अविशेषेण-साधारणवृत्त्या सर्वेषां-पारगत-सुगत-हर-हरिहिरण्यगर्भादीनाम् । पक्षान्तरमाह-अधिमुक्तिवशेन वा । अथवा यस्य यत्र देवतायामतिशयेन श्रद्धा तद्वशेन । कुतः इत्याह, गृहिणाम्-अद्यापि कुतोऽपि मतिमोहादनिर्णीतदेवताविशेषाणां, माननीया-गौरवाः , यद् यस्मात,सर्वे देवा उक्तरूपाः, महात्मनां परलोकप्रधानतया प्रशस्तात्मनामिति ॥ एतदपि कथम् ? इत्याह ।। सर्वान्देवान्नमस्यन्ति, नैकं देवं समाश्रिताः ॥ जितेन्द्रिया जितक्रोधा, दुर्गाण्यतितरन्ति ते ॥३॥ (११८) सर्वान् देवान्नमस्यन्ति-नमस्कुर्वते । व्यतिरेकमाह-नैकं कंचन, देवं समाश्रिताः प्रतिपन्ना वर्तन्ते । येन ते जितेन्द्रिया निगृहीतहृषीकाः, जितक्रोधा अभिभूतकोपाः, दुर्गाणि-नरकपातादीनि व्यसनानि, अति. तरन्ति-व्यतिक्रामन्ति, ते सर्वदेवनमस्कारः। ननु नैव ते लोके व्यवह्रियमाणाः सर्वेऽपि देवा मुक्तिपथपस्थितानामनुकूलाचरणा भव. न्तीति कथमविशेषेण नमस्करणीयाः(यता)? इत्याशङ्कयाह-चारिसञ्जीवनीचार-न्याय एष सतां मतः॥ नान्यथाऽवेष्टसिद्धिःस्थाद्, विशे| षेणादिकर्मणाम् ॥४॥(११९) चारेः प्रतीतरूपाया मध्ये सञ्जीवनी-औषधिविशेषश्चारिसञ्जीवनी, तस्याश्चारश्चरणं स एव न्यायो दृष्टान्तश्चारिसञ्जीवनीचारन्यायः। एषोऽविशेषेण देवतानमस्करणीयतोपदेशः, सतां शिष्टानां मतोऽभिप्रेतः । "भावार्थस्त
C