________________
तेषामपि मन्दमिथ्यात्ववतामपि, किं पुनः सम्यग्दृष्ट्यादीनाम् । न तथा दृढविपर्यासनियतप्रकारेण, असत्प्रवृत्तिः स्यात् । केन? धर्मपरीक्षा हूँ
सदन्धज्ञातेन-समीचीनान्धदृष्टान्तेन । यथाहि-सदन्धः सातवेद्योदयादनाभोगेनाऽपि मार्ग एवं गच्छति. तथा निर्बीजत्वेन निर्वी- | सटिप्पणा ॥५६॥ जभावाभिमुखत्वेन वा मोहापकर्षजनितमन्दरागद्वेषभावोऽनाभोगवान्मिथ्यादृष्टिरपि जिज्ञासादिगुणयोगान्मार्गमेवानुसरतीत्युक्तम् ।
॥स्वोपन उक्तं च ललितविस्तरायाम्-"अनाभोगतोऽपि मार्गगमनमेव सदन्धन्यायेन-इत्यध्यात्मचिन्तकाः" इदमत्र हृदयम्-यः खलु MIN"
वृत्तिः ॥ | मिथ्यादृशामपि केषांचित्वपक्षनिबद्धोद्धरानुबन्धानामपि प्रबलमोहत्वे सत्यपि कारणान्तरादुपजायमानो रागद्वेषमन्दतालक्षण उपशमो
॥५६॥ भूयानपि दृश्यते, स पापानुबन्धिपुण्यबन्धहेतुत्वात्पर्यन्तदारुण एव । तत्फलसुखव्यामृढानां तेषां पुण्याभासकर्मोपरमे नरकादिपातावश्यं भावादित्यसत्प्रवृत्तिहेतुरेवायम् । यश्च गुणवत्पुरुषप्रज्ञापनार्हत्वेन जिज्ञासादिगुणयोगान्मोहापकर्षप्रयुक्तरागद्वेषशक्तिप्रतिघातलक्षण उपशमः, स तु सत्प्रवृत्तिहेतुरेवाग्रहविनिवृत्तेः सदर्थपक्षपातसारत्वादिति ॥ ११ ॥
यत एव मिथ्यात्वमन्दताकृतं माध्यस्थ्यं नासत्प्रवृत्याधायकम्, अत एव तदुपष्टम्भकमनाभिग्रहिकमिथ्यात्वमपि शोभनमित्याहइत्तो अणभिग्गहियं, भणि हियकारि पुव्वसेवाए ॥ अण्णायविसेसाणं, पढमिल्लयधम्ममहिगिच्च ॥१२॥
[इतोऽनाभिग्रहिकं भणितं हितकारि पूर्वसेवायाम् । अज्ञातविशेषाणां प्रथमधर्ममधिकृत्य ॥ १२॥] इत्तोत्ति । इतः पूर्वोक्तकारणात, अज्ञातविशेषाणां देवगुर्वादिविशेषपरिज्ञानाभाववतां, प्राथमिकं धर्ममधिकृत्य-प्रथमा. रब्धस्थूलधर्ममाश्रित्य, पूर्वसेवायां योगप्रासादप्रथमभूमिकोचिताचाररूपायां, अनाभिग्रहिकं-सर्वदेवगुर्वादिश्रद्धानलक्षणं मिथ्यात्वं, हितकारि भणितम्, अनुषङ्गतः सद्विषयभक्तिहेतुत्वाद्, अविशेषश्रद्धानस्यापि दशाभेदेन गुणत्वात् । तदुक्तं योगविन्दौ ।। अथ
SECAMALSSIENCECANSAR
ॐCCACAॐॐॐॐॐ